________________
'श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[बलवान् मल्लः ] बलं विद्यतेऽस्यासौ = बलवान् मल्लः । अनेन मतुप्र० → मत् । शेषं पूर्ववत् ।
संसर्गे - [दण्डी] दण्डो विद्यतेऽस्यासौ = दण्डी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[छत्री ] छत्रं विद्यतेऽस्यासौ = छत्री । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
प्रायिकमेतद्भूमादिदर्शनं, सत्तामात्रेऽपि प्रत्ययो दृश्यते[व्याघ्रवान् पर्वतः] व्याघ्रो विद्यतेऽस्मिन् असौ = व्याघ्रवान् पर्वतः ।
[स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ] स्पर्शश्च रसश्च गन्धश्च वर्णश्च = स्पर्शरसगन्धवर्णाः । स्पर्शरसगन्धवर्णा विद्यन्ते एष ते = स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । जस् ।
[रूपरसगन्धस्पर्शवती पृथिवी] रूपश्च रसश्च गन्धश्च स्पर्शश्च = रूपरसगन्धस्पर्शाः । रूपरसगन्धस्पर्शा विद्यन्तेऽस्यां सा = रूपरसगन्धस्पर्शवती । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तो०' (२।१।९४) म० → व० ।
[रूपरसस्पर्शवत्य आपः] रूपं च रसश्च स्पर्शश्च = रूपरसस्पर्शाः । रूपरसस्पर्शा विद्यन्ते आसु ताः = रूपरसस्पर्शवत्य आपः । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । जस् । 'मावर्णान्तोपा०' (२।१।९४) म० → व० ।
[रूपस्पर्शवत्तेजः ] रूपं च स्पर्शश्च = रूपस्पर्शी । रूपस्पर्शी विद्येते यत्र तत् = रूपस्पर्शवत्तेजः । [स्पर्शवान् वायुः ] स्पर्शो विद्यते यस्य सः = स्पर्शवान् वायुः ।
[यवमतीभिरद्भिर्युपं प्रोक्षन्ति] यवा विद्यन्ते आसु ताः = यवमत्यस्ताभिः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'नोादिभ्यः' (२।१।९९) इत्यनेन मकारस्य वत्त्वं निषेधः । 'अधातूदृदितः' (२।४।२) ङी । इदमेकं विमुच्य अन्यत्र 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । अप् तृतीया भिस् । 'अपोऽद्रे' (२।१।४) प०
→ द० । पानीयैरित्यर्थः । 'उक्ष सेचने' (५६६) उक्ष, प्रपूर्व० । वर्त० अन्ति । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
तथा मत्वर्थीयान्मत्वर्थीयः सरूपो न भवति
[गोमन्तः] गाव एषां सन्तीति गोमन्तः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । गोमन्तोऽत्र सन्तीति मतुर्न भवति ।
[दण्डिकाः] दण्ड एषामस्तीति दण्डिकाः । 'नावादेरिकः' (७२।३) इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । दण्डिका अत्र सन्तीति इको न भवति ।
विरूपस्तु भवत्येव
[दण्डिमती शाला] दण्डो विद्यते एषां ते = दण्डिनः । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दण्डिनोऽस्यां सन्ति । अनेन मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२), ङी। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org