SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [पूर्वशालः] पूर्वा शाला अस्यास्ति = पूर्वशालः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'परतः स्त्री पुम्वत्०' (३।२।४९) पुंवत् । [अपरशालः] अपरा शाला अस्यास्ति = अपरशालः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'परतः स्त्री पुम्वत्०' (३।२।४९) पुंवत् । [पञ्चगुः] पञ्च गावोऽस्य सन्ति = पञ्चगुः । 'गोश्चान्ते०' (२।४।९६) हस्वः । [दशगुः ] दश गावोऽस्य सन्ति = दशगुः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । इत्यत्राप्यस्तीतिपदसापेक्षम् । [द्वैमातुरः] द्वयोर्मात्रोरपत्यं = द्वैमातुरः । 'संख्या-सं-भद्रान्मातुर्मातुर्च' (६।१।६६) अण्प्र० → अ-मातृशब्दस्य मातुर् आदेशश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः ऐ । इत्यादौ तद्धितद्विगुं सावकाशं बाधित्वा अस्तिपदनिरपेक्षत्वादन्तरङ्गेण बहुव्रीहिणा भवता उक्तार्थत्वात् मतुर्न भवति । इतिकरणो विवक्षार्थः । तेन भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां, प्रायो मत्वादयो मताः ॥१॥ भूम्नि - [गोमान्] गावोऽस्य सन्ति = गोमान् । [यवमान् ] यवाः सन्त्यस्मिन् = यवमान् । निन्दायाम् - [शङ्खादकी ] शम् 'खादृ भक्षणे' (२९४) खाद् । शं खादतीत्येवंशीलः । 'निन्द-हिंस-क्लिश-खादविनाशि-व्याभाषाऽसूयाऽनेकस्वरात्' (५।२।६८) णकप्र० → अक । शङ्खादक आवर्तविशेषोऽस्यास्ति = शङ्खादकी । 'प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात्' (७२।६०) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'इन्-हन्पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [ककुदावर्ती ] ककुदे आवर्त्तः - ककुदमावर्त्तयति वा । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिलुक् । ककुदावर्तोऽस्यास्ति = ककुदावर्ती । 'प्राणिस्थादस्वाङ्गाद्' (७।२।६०) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । प्रशंसायाम् - [रूपवती कन्या ] रूपं विद्यतेऽस्याः सा = रूपवती । अनेन मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → व० । [शीलवती कन्या ] शीलं विद्यतेऽस्याः सा = शीलवती । अनेन मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → व० । नित्ययोगे - [क्षीरिणो वृक्षाः ] क्षीरं दुग्धमेष्वस्ति = क्षीरिणः । 'अतोऽनेकस्वरात्' (७।२६) इन्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । जस् । [कण्टकिनः ] कण्टकाः सन्त्येषु = कण्टकिनः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । अतिशायने - [ उदरिणी कन्या ] उदरमस्या अस्ति = उदरिणी कन्या । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्जीः' (२।४।१) ङी । 'र-घुवर्णान्नो ण०' (२३।६३) णत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy