SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । ॥ अहम् ॥ ॥ अथ सप्तमाध्यायस्य द्वितीयः पादः ॥ तदस्याऽस्त्यस्मिन्निति मतुः ॥ ७।२।१ ॥ [तद् ] तद् पञ्चमी ङसि । सूत्रत्वात् (लोपः) ।। [अस्य ] अस्य सप्तमी ङि । सूत्रत्वात् (लोपः) । [अस्ति] अस्ति प्रथमा सि । सूत्रत्वात् (लोपः) । [अस्मिन्] अस्मिन् प्रथमा सि-सप्तमी ङि वा । सूत्रत्वात् (लोपः) । [इति] इति प्रथमा सि । [मतुः] मतु प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [गोमान् ] गावोऽस्य सन्ति = गोमान् । [यवमान्] यवाः सन्त्यस्य = यवमान् । [वृक्षवान्] वृक्षा अस्मिन् सन्ति = वृक्षवान् । [प्लक्षवान् पर्वतः] प्लक्षा अस्मिन् सन्ति = प्लक्षवान् पर्वतः । [अस्तिमान् ] अस्ति-धनमस्य = अस्तिमान् । [स्वस्तिमान् ] स्वस्ति-आरोग्यमस्यास्ति = स्वस्तिमान् । सर्वत्र अनेन मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । यथादर्शनं 'मावर्णान्तोपान्ताऽपञ्चम०' (२।१।९४) म० → व० । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलुक् । अत्र अस्ति-स्वस्ती अव्ययौ धनारोग्यवचनौ । अष्टौ कस्मान्न भवति [चित्रगुः] चित्रा गावोऽस्य सन्ति = चित्रगुः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ (३।२।४९) पुंवत् । चित्रगोमानिति प्राप्नोति बहुव्रीहिणैव मत्वर्थस्योक्तत्वात् । [शबलगुः] शबला गावोऽस्य सन्ति = शबलगुः । 'गोश्चान्ते.' (२।४।९६) हूस्वः । 'परतः स्त्री पुम्वत्' (३।२।४९) पुंवत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy