________________
सप्तमाध्यायस्य प्रथमः पादः ॥
८७
कुल्माष इति मूर्धन्योपान्त्योप्यस्ति ॥छ।।
वटकादिन् ॥ ७।१।१९६ ॥ [वटकात्] वटक पञ्चमी ङसि । [इन् ] इन् प्रथमा सि ।
[वटकिनी] वटकानि प्रायेण प्रायो वाऽन्नमस्यां पौर्णमास्यां = वटकिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डी' (२।४।१) ङी ॥छ।।
साक्षाद् द्रष्टा ॥ ७।१।१९७ ॥ [साक्षात् ] साक्षात् पञ्चमी ङसि । 'अव्ययस्य' (३।२।७) ङसिलोपः ।
[ द्रष्टा ] द्रष्ट प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोप: । सप्तमी ङि । सूत्रत्वाल्लोपः ।।
[साक्षी, साक्षिणौ, साक्षिणः] साक्षाद् द्रष्टा = साक्षी । साक्षाद् द्रष्टारौ = साक्षिणौ । साक्षाद् द्रष्टारः = साक्षिणः । अनेन इन्प्र० । 'प्रायोऽव्ययस्य' (७।४।६५) अन्त्यस्वरादिलोपः । सि-औ-जस् ।
[साक्षाद् द्रष्टा ] साक्षात् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । द्रष्टा ॥छ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ तद्धितस्य
पञ्चमः पादः ॥छ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org