SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [रोगे] रोग सप्तमी ङि । [द्वितीयको ज्वरः ] द्वितीयो दिवसोऽस्याविर्भावाय = द्वितीयको ज्वरः । अनेन कप्र० । [तृतीयको ज्वरः ] तृतीयो दिवसोऽस्याविर्भावाय = तृतीयको ज्वरः । अनेन कप्र० । [चतुर्थको ज्वरः] चतुर्थः दिवसोऽस्याविर्भावाय = चतुर्थको ज्वरः । अनेन कप्र० । [विषपुष्पकः ] विषस्य पुष्पं = विषपुष्पम् । विषपुष्पं हेतुः कारणमस्य = विषपुष्पकः । अनेन कप्र० ।। [काशपुष्पकः] काशस्य पुष्पं = काशपुष्पम् । काशपुष्पं हेतुः कारणमस्य = काशपुष्पकः । अनेन कप्र० । [पर्वतको रोगः] पवतो हेतुः कारणमस्य = पर्वतको रोगः । अनेन कप्र० । फलम् - [शीतकः ] शीतं फलं कार्यमस्य = शीतकः । अनेन कप्र० । उष्णको ज्वाः) उष्ण:/ष्ण) प्रलं कार्यमास्य = उष्णको ज्वरः अनेन PONDI) प्रायोऽन्नमस्मिन् नाम्नि ॥ ७।१।१९४ ॥ [प्रायः ] प्रायस् तृतीया टा । सूत्रत्वात् (लोपः) । [अन्नम् ] अन्न प्रथमा सि । प्रथमान्तात् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [अस्मिन् ] अस्मिन् सप्तमी ङि । सूत्रत्वात् (लोपः) । [ नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलुक् । स इति वर्त्तते । प्रायशब्दोऽत्रान्नसमानाधिकरणो नियतलिङ्गसंख्यः । प्रायः अकृत्स्नबहुत्वम् । [गुडापूपिका पौर्णमासी] गुडापूपाः प्रायेण प्रायो वाऽन्नमस्यां पूर्णिमायां = गुडापूपिका पौर्णमासी । अनेन कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ। [तिलापूपिका ] तिलापूपाः प्रायेण प्रायो वाऽन्नमस्यां = तिलापूपिका । अनेन कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ । [कृशरिका] कृस(श)रा प्रायेण प्रायो वाऽन्नमस्यां = कृस(श)रिका । अनेन कप्र० । 'झ्यादीदूतः के' (२।१।१०४) हुस्वः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । [त्रिपुटिका ] त्रिपुटः प्रायेण प्रायो वाऽन्नमस्यां = त्रिपुटिका । अनेन कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्या यत्०' (२।४।१११) इ छ। कुल्मासादण् ॥ ७।१।१९५ ॥ [कुल्मासात् ] कुल्मास पञ्चमी ङसि । [अण्] अण् प्रथमा सि । [कौल्मासी पौर्णमासी] कुल्मासाः प्रायेण प्रायो वाऽन्नमस्यां पौर्णमास्यां = कौल्मासी पौर्णमासी । अनेन अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy