SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ अभेरीश्च वा ॥ ७।१।१८९ ॥ [अभेः] अभि पञ्चमी ङसि । [ईश्च] ई प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । च प्रथमा सि । [वा] वा प्रथमा सि । [अभिकः, अभीकः] अभि-कामयते = अभिकः भर्ता, अभीकः । अनेन कप्र०-विकल्पेन ईकारश्च ॥छ।। सोऽस्य मुख्यः ॥ ७।१।१९० ॥ [ सोऽस्य ] सो(स:) पञ्चमी ङसि । सूत्रत्वात् (लोपः) । अस्य सप्तमी ङि । सूत्रत्वात् (लोप:) । [मुख्यः ] मुख्य प्रथमा सि । [देवदत्तकः सङ्घः ] देवदत्तो मुख्योऽस्य = देवदत्तकः सङ्घः । अनेन कप्र० । [जिनदत्तकः ] जिनदत्तो मुख्योऽस्य = जिनदत्तकः । अनेन कप्र० । [ देवदत्तकाः ] देवदत्तो मुख्य एषां = देवदत्तकाः । अनेन कप्र० । जस् । [जिनदत्तकाः ] जिनदत्तो मुख्य एषां = जिनदत्तकाः । अनेन कप्र० । जस् ॥छ।। शृङ्खलकः करभे ॥ ७।१।१९१ ॥ [शृङ्खलकः] शृङ्खलक प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [करभे] करभ सप्तमी ङि । [शृङ्खलकः करभः ] कृ (१५२९) - मृ (१५३०) - 'शृश् हिंसायाम्' (१५३१) शृ । शृणाति-हिनस्ति गतिं = शृङ्खलः । 'श्रो नोऽन्तो हुस्वश्च' (उणा० ४९८) खलप्र० - नोऽन्तः-हुस्वश्च । शृङ्खलं बन्धनमस्य = शृङ्खलकः । अनेन कप्र० । करभ उच्यते । करभाणां काष्ठमयं पादबन्धनं शृङ्खलम् । वयःशब्दश्चाऽयम् । शृङ्खलं बन्धनं भवतु मा वा भूत् । त्रिवार्षिक उष्ट्रशिशुः करभ उच्यते । यतः उक्तमभिधानचिन्तामणौ-"करभस्तु त्रिहायणः स तु शृङ्खलकः" ॥ श्लोकाङ्क: १२५५ ॥छ।। उदुत्सोरुन्मनसि ॥ ७।१।१९२ ॥ [ उदुत्सोः] उच्च उत्सुश्च = उदुत्सुः, तस्मात् । [ उन्मनसि ] उद्गतं मनो यस्याऽसौ उन्मनाः, तस्मिन् । [ उत्कः ] उद्गतं मनोऽस्य = उत्कः । अनेन कप्र० । [ उत्सुकः ] उत्सुगतं मनोऽस्य = उत्सुकः । अनेन कप्र० ॥छ।। काल-हेतु-फलाद् रोगे ॥ ७।१।१९३ ॥ [कालहेतुफलात् ] कालश्च हेतुश्च फलं च = कालहेतुफलम्, तस्मात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy