SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [नाम्नि ] नामन् सप्तमी ङि । 'ई-डौ वा' (२।१।१०९) अलुक् । [ब्राह्मणको नाम देशः ] सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धत्य पृथक्कृतः = ब्राह्मणको देशः । अनेन कप्र० ॥छ।। उष्णात् ॥ ७।१।१८५ ॥ [उष्णात् ] उष्ण पञ्चमी ङसि । [उष्णिका यवागः] उष्णादग्नेरचिरोद्धता = उष्णिका यवागः । अल्पान्ना पेया विलेपिकेति यावत् । अनेन कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ ॥छा। शीताच्च कारिणि ॥ ७।१।१८६ ॥ [शीतात्] शीत पञ्चमी ङसि । [च] च प्रथमा सि । [कारिणि ] 'डुइंग् करणे' (८८८) कृ । अवश्यं करोतीति । 'णिन् चाऽऽवश्यकाऽधमर्ये' (५।४।३६) णिन्प्र० → इन् । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । तस्मिन् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [शीतकोऽलसः ] शीतं मन्दं करोति = शीतकोऽलसः । अनेन कप्र० । [ उष्णको दक्षः ] उष्णं क्षिप्रं करोति = उष्णको दक्षः । अनेन कप्र० । शीतोष्णशब्दाविह मान्द्यशीघ्रवचनौ गृह्य(ह्ये)ते, न स्पर्शवचनौ । क्रियाविशेषणत्वात् द्वितीया ॥छ। । अधेरारूढे ॥ ७।१।१८७ ॥ [अधेः] अधि पञ्चमी ङसि । [आरूढे] आ 'रुहं जन्मनि' (९८८) रुह । आरोहति स्म = आरूढः । तस्मिन् । 'श्लिष-शीङ्-स्था-ऽऽस-वसजन-रुह-जू-भजे: क्तः' (५।१।९) क्तप्र० → त० । 'हो धुट्-पदान्ते' (२।१३८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य०' (१।३।६०) ध० → ढ० । 'ढस्तड्डे' (१।३।४२) ढलुक्-उदीर्घश्च । आरूढशब्दः कर्तरि कर्मणि च क्तप्रत्यये सिद्धः । तत्र यदा कर्तरि तदा [अधिको द्रोणः खार्याः, अधिको द्रोणः खार्याम् ] अधि-आरूढः = अधिको द्रोणः खार्याः, अधिको द्रोणः खार्यामिति वा । अनेन कप्र० । 'अधिकेन भूयसस्ते' (२।२।१११) पञ्चमी-सप्तमी वा। यदा तु कर्मणि तदा [अधिका खारी द्रोणेन] अधि-आरूढा = अधिका खारी द्रोणेन । 'तृतीयाऽल्पीयसः' (२।२।११२) तृतीया । अत्र अनेन कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ ॥छा। अनोः कमितरि ॥ ७।१।१८८ ॥ [अनोः ] अनु पञ्चमी ङसि । [कमितरि] कमितृ सप्तमी ङि । 'अङौं च' (१।४।३९) अर् । [अनुकः] अनु-कामयते = अनुकः भर्त्ता । अनेन कप्र० ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy