SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ केशकः ] केशेषु सक्तः = [ नखक: ] नखेषु सक्तः = नखकः । अनेन कप्र० । [ दन्तकः ] दन्तेषु सक्तः = दन्तकः । अनेन कप्र० । केशादिरचनायां प्रसक्त उच्यते । केशकः । अनेन कप्र० । बहुवचनात् स्वाङ्गसमुदायादपि [ दन्तौष्ठकः ] दन्ताश्च ओष्ठौ च = दन्तौष्ठा:, तेषु सक्तः = दन्तौष्ठकः । अनेन कप्र० । केशनखा:, तेषु सक्तः = केशनखकः । अनेन कप्र० ॥छ । उदरे विकणाने ॥ ७।१।१८१ ॥ [ केशनखकः ] केशाश्च नखाश्च = [ उदरे ] उदरे पञ्चमी ङसि । सूत्रत्वात् ( लोप: ) । [तु] तु प्रथमा सि । [इकण् ] इकण् प्रथमा सि । [आद्यूने] 'दिवूच् क्रीडा- जयेच्छा - पणि-द्युति-स्तुति-गतिषु' (१९४४) दिव्, आङ्पूर्व० । आदीव्यति स्म = आद्यूनः । 'क्त-क्तवतू' (५|१|१७४) क्तप्र० त । 'पू- दिव्यञ्चेर्नाशा ऽद्यूताऽनपादाने' (४/१/७२) त० न० । 'अनुनासिके च च्छ् वः शूट्' (४।१।१०८) व० ऊ ऊ । 'इवर्णादेरस्वे० ' (१।२।२१) यत्, तस्मिन् । [ औदरिक आद्यून:, औदरिकी ] उदरे सक्त: = औदरिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । आद्यूनः । एवम् - औदरिकी । 'अणञेयेकण्०' (२।४।२०) ङी । [ उदरकोऽन्यः ] उदरे सक्तः = उदरकोऽन्यः । 'स्वाङ्गेषु सक्ते' (७।१।१८०) प्र० छ । अंशं हारिणि ॥ ७।१।१८२ ॥ [ अंशम् ] अंशम् पञ्चमी ङसि । सूत्रत्वात् ( लोप: ) । [ हारिणि ] 'हंग् हरणे' (८८५) हृ । अवश्यं हरिष्यतीति । 'णिन् चाऽऽवश्यकाऽधमर्ण्य' (५/४१३६) णिन्प्र० इन् । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१) आर् । तस्मिन् । 'र- षृवर्णान्नो ण० ' (२।३।६३) णत्वम् । वृद्धिः [ अंशको दायादः ] अंश । अंशं हारी अंशको दायादः । अनेन कप्र० ||छ । Jain Education International = = तन्त्रादचिरोद्धृते ॥ ७।१।१८३ ॥ [] तन्त्रात् ] तन्त्र पञ्चमी ङसि । [ अचिरोद्धृते ] न चिरोद्धृतः = अचिरोद्धृतस्तस्मिन् । [तन्त्रकः पटः ] तन्त्रात् पटवानोपकरणादचिरोत्तीर्णः = तन्त्रकः । अनेन कप्र० । प्रत्यग्रः पट इत्यर्थः ॥छ । ब्राह्मणान्नानि ॥ ७।१।१८४ ॥ [ ब्राह्मणात् ] ब्राह्मण पञ्चमी ङसि । ८३ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy