________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[इयः] इय प्रथमा सि । 'सो रुः' (२२११७२) स० → र० ।
[क्षेत्रियो व्याधिः] अन्यस्मिन् क्षेत्रे नाश्यः = क्षेत्रियो व्याधिः । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । क्षेत्रं शरीरम् । अन्यदिति जन्मान्तरशरीरमुच्यते । तत्र नाश्यो नेहे(ह)त्यसाध्यो व्याधिरुच्यते ।
[क्षेत्रियं विषम् ] अन्यस्मिन् क्षेत्रे नाश्यं = क्षेत्रियं विषम् । अनेन इयप्र० । तद्धि स्वशरीरादन्यस्मिन्परशरीरे मन्त्रादिबलेन तद्विषं संक्रमय्य किञ्चिन्नाश्यं चिकित्स्यं भवति ।
[क्षेत्रियाणि तुणानि] अन्यस्मिन् क्षेत्रे नाश्यानि = क्षेत्रियाणि तृणानि । अनेन इयप्र० । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः' । 'नि दीर्घः' (१।४।८५) दीर्घः । 'र-षवर्णान्नो ण.' (२।३।६३) न० → ण । तानि हि सस्यक्षेत्रे इतरप्रदेशापेक्षया अन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि भवन्ति ।
[क्षेत्रियः पारदारिकः] अन्यस्मिन् क्षेत्रे नाश्यः = क्षेत्रियः पारदारिकः । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७४/६८) . अलुक् । परदारान् गच्छति = पारदारिकः । 'परदारादिभ्यो गच्छति' (६।४।३८) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । स हि स्वक्षेत्रादन्यस्मिन् क्षेत्रे परदारेषु पवर्तमानस्तत्र नाश्यो निग्राह्यो भवति । दाराः क्षेत्रम् ॥छ।
छन्दोऽधीते श्रोत्रश्च वा ॥ ७।१।१७३ ॥ [छन्दः ] छन्दस् अमन्तात् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [ अधीते ] अधीते सप्तमी ङि । सूत्रत्वात् (लोपः) । [श्रोत्रश्च] श्रोत्र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [वा] वा प्रथमा सि ।
[ श्रोत्रियः, छान्दसः] छन्दस् । छन्दोऽधीते = श्रोत्रियः । अनेन इयप्र० - छन्दस्शब्दस्य श्रोत्रभावश्च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-छान्दसः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः ॥छ।।
इन्द्रियम् ॥ ७।१।१७४ ॥
[इन्द्रियम् ] इन्द्रिय सि-अम् ।
[इन्द्रियम् ] इन्द्र-आत्मा । इन्दस्य लिङ्गमिन्द्रियम् । अनेन इयप्र० निपात्यते । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । चक्षुराधुच्यते, तेन हि करणेनात्मानुमीयते 'नाकर्तकं करण'मिति ।
इन्द्रेण दृष्टमिन्द्रियम्, आत्मा हि चक्षुरादीनि दृष्ट्वा स्वविषये नियुङ्क्ते ।
इन्द्रेण सृष्टमिन्द्रियम् । अनेन इयप्र० निपात्यते । आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षुरादीनि भवन्ति ।
इन्द्रेण जुष्टमिन्द्रियम् । अनेनैव निपात्यते । तद्द्वारेणाऽस्य विज्ञानोत्पादनात् । इन्द्रेण दत्तमिन्द्रियम् । विषयग्रहणाय विषयेभ्य: समर्पणात् । इन्द्रम्यावरणक्षयोपशमसाधनमिन्द्रियम) अनेन इया नित्याने एका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org