________________
सप्तमाध्यायस्य प्रथमः पादः ॥
-
८१
तेन वित्ते चञ्चु-चणौ ॥ ७।१।१७५ ॥ [तेन ] तेन पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [वित्ते] वित्त सप्तमी ङि। [चञ्चुचणौ ] चञ्चुश्च चणश्च = चच्चुचणौ । वित्तो ज्ञात: प्रकाश इत्यर्थः । [विद्याचञ्चुः, विद्याचणः] विद्यया वित्तः = विद्याचञ्चुः, विद्याचणः । अनेन चञ्चु-चणप्र० । [केशचञ्चुः, केशचणः ] केशैर्वित्तः = केशचञ्चुः, केशचणः । अनेन चञ्चु-चणप्र० ॥छ।।
पूरणाद् ग्रन्थस्य ग्राहके को लुक् चाऽस्य ॥ ७।१।१७६ ॥ [पूरणात् ] 'पूरैचि आप्यायने' (१२६८) पूर् । पूर्यतेऽनेनेति पूरणम् । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'र-षवर्णान्नो ण०' (२।३।६३) न० → णत्वम् । तस्मात् ।
[ग्रन्थस्य ] ग्रन्थ षष्ठी ङस् । [ग्राहके ] ग्राहक सप्तमी ङि । [कः] क प्रथमा सि । [लुक्] लुक् प्रथमा सि । [च] च प्रथमा सि । [अस्य ] इदम् षष्ठी ङस् ।
[द्विकः ] द्वयोः पूरणः = द्वितीयः । 'द्वस्तीयः' (७।१।१६५) तीयप्र० । द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः = द्विकः । अनेन कप्र०-तीयस्य लुक् ।
[त्रिकः ] त्रयाणां पूरणः = तृतीयः । 'त्रेस्तृ च' (७।१।१६६) तीयप्र०-त्रिस्थाने तृदेशश्च । तृतीयेन रूपेण ग्रन्थस्य ग्राहकः = त्रिकः । अनेन कप्र०-तीयस्य लुक् ।
[चतुष्कः] चतुण्ाँ पूरणः = चतुर्थः, तुर्यः, तुरीयः । 'चतुरः' (७१।१६३) थटप्र० → थ । 'येयौ चलुक् च' (७।१।१६४) य-ईयप्र०-चलुक् च । चतुर्थेन तुर्येण तुरीयेण वा रूपेण ग्रन्थस्य ग्राहकः = चतुष्कः । अनेन कप्र०-थ-यईय-लुक् च । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र० → षत्वम् ।
[पञ्चकः] पञ्चानां पूरणः = पञ्चमः । 'नो मट' (७।१।१५९) मटप्र० → म । पञ्चमेन रूपेण ग्रन्थस्य ग्राहकः = पञ्चकः । अनेन कप्र०-मलुक् च ।
[षट्कः वैयाकरणः ] षष् । षण्णां पूरणः = षष्ठः । 'षट्-कति-कतिपयात् थट्' (७।१।१६२) थट्प्र० → थ । षष्ठेन रूपेण ग्रन्थस्य ग्राहकः । अनेन कप्र०-थलुक् च । वैयाकरणः ॥छ।।
ग्रहणाद् वा ॥ ७।१।१७७ ॥ [ग्रहणात्] ग्रहण पञ्चमी ङसि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org