SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७८ [ तृतीय: ] त्रयाणां पूरण: [ तृतीया ] तिसृणां पूरणी = = तृतीय: । अनेन तीयप्र० - त्रि० तृतीया । अनेन तीयप्र० - त्रि० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । तृदेशश्च । तृदेशश्च । 'आत्' (२।४।१८) आप्प्र० आ ॥छा पूर्वमनेन सादेश्चेन् ॥ ७।१।१६७ ॥ पूर्वम् ] पूर्व क्रियाविशेषणात् ' (२।२।४१) अम् । [ अनेन ] अनेन सप्तमी ङि । सूत्रत्वात् (लोप: ) । [सादे: ] सह आदिना वर्त्तते = सादिस्तस्मात् । 'सहस्य सोऽन्यार्थे' ( ३।२।१४३) सह सभावः । [च] च प्रथमा सि । [इन् ] इन् प्रथमा सि । [ पूर्वी ] पूर्वमनेन = पूर्वी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि । [ पूर्विणौ ] पूर्वमाभ्यां = पूर्विणौ । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । औ । [ पूर्विण: ] पूर्वमेभिः = पूर्विणः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । जस् । Jain Education International [ पूर्वी कटम् ] पूर्वं कटोऽनेन = पूर्वी कटम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [पूर्वी ओदनम् ] पूर्वं ओदनो अनेन = पूर्वी ओदनम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [पूर्वी पयः ] पूर्वं पयोऽनेन = पूर्वी पयः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् । [कृतपूर्वी कटम् ] कृतं पूर्वं कटोऽनेन = कृतपूर्वी कटम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ भुक्तपूर्वी ओदनम् ] भुक्तं पूर्वमोदनोऽनेन भुक्तपूर्वी ओदनम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ पीतपूर्वी पयः ] पीतं पूर्वं पयोऽनेन = पीतपूर्वी पयः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ । इष्टादेः ॥ ७।१।१६८ ॥ = [ इष्टादे: ] इष्ट आदिर्यस्य सः = इष्टादि:, तस्मात् । [ इष्टी यज्ञे ] इष्टमनेन = इष्टी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ पूर्ती श्राद्धे ] 'पृश् पालन- पूरणयो:' (१५३२) पृ । पूर्यते स्म । 'क्त-तवतू' (५।१।१७४) क्तप्र० → त । 'ओष्ठ्यादुर्' (४|४|११७) उर् । तस्य नो न भवति 'ऋ- ल्वादेरेषां तो नोऽप्रः' (४/२/६८) इत्यनेन निषेधात् । पूर्त्तमनेन : पूर्ती श्राद्धे । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'व्याप्ये तेनः ' (२।२।९९) इति कर्मणि सप्तमी । गणोऽत्र ॥छ । श्राद्धमद्यभुक्तमिकेनौ ॥ ७।१।१६९ ॥ [ श्राद्धम् ] श्राद्धम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [ अद्यभुक्तम्] अद्यभुक्तम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy