________________
विभाग-१, बृहद्वृत्तिः
७१ तुष्टा निशङ्कमत्राद्य नः सुरतलीला प्रवय॑तीतिधिया मुदिता विटा वेश्यापतयः नटा नाटकाभिनयनादिकलोपजीविनः भटाः शस्त्रादिकलाजीविनः चेटका मासादिनियमितवृत्तिग्राहिणः एषां पेटकं समुदायस्तेनाकुलं क्षुभितं प्रेयसीप्राप्त्या सात्त्विकभावेनाकुलीकृतविटादिजनाकीर्णत्वात् मज्जनमप्युपचारादाकुलम् ॥
तथा निधुवनविधिनिबद्धदोहदा मोहनविलसितविहिताभिलाषाः या नरनार्यः पुरुषयोषितस्तासां निकरेण निचयेन सङ्कलं व्याप्तम् ॥ नारीणां हि प्रायो निधुवनार्थमेव मज्जनावलोकनच्छद्मना तत्रागमनात् ॥ तथाविधव्याजमन्तरेण रात्रौ तत्राप्यागमनासम्भवात् ॥ तथाविधव्याजेन चान्यत्र गन्तुमशक्तत्वात् ॥ ___ अत एव रागः काञ्चित् परवरवर्णिनी प्रत्यभिष्वङ्गः द्वेषः स्वप्रेयसीमन्येन सह सङ्गच्छमानां पश्यतस्तंज्जिघांसा मत्सरः किञ्चित्सौभाग्येन कयाचित्सङ्घट्टमानमालोकयतः स्वयं च तां कामयमानस्य तत्सौभाग्यव्ययिषा, ईर्ष्यास्ववल्लभामन्येन सार्धं सलंपन्तीमीक्षमाणस्याऽसहिष्णुता ॥ ततो रागश्चेत्यादिद्वन्द्वः ॥ ताभिर्घनं सार्द्रम् ॥ अत्रापि रागादिमल्लोकघनत्वान्मज्जनमप्युपचारात्तथा ॥ ____ कामुकलोकमेलके हि जिनगृहेपि निशायां रागादय एवोज्जृम्भन्ते नत्वणीयस्यापि धर्मभावना ॥ तदुक्तम् ॥ प्रारब्धे जिनबिम्बमज्जनविधौ मुग्धै निशि श्रावकैः, श्रेयो) जिनमन्दिरे समुदिताश्चित्रं रिसास्पृशः ॥ स्त्रीपुंसा रभसादुपात्तसमयास्ताम्बूलबिम्बाधरा, गाढालिङ्गनभङ्गिसङ्गमसुखं विन्दन्ति नन्दन्ति च ॥ ___एतदुक्तं भवति जिनस्नपनं हि स्वस्य परेषां च द्रष्ट्णां रागद्वेषादिक्षयाय विधीयते ॥ निशायां तद्विधाने च कामुकानां सुरताद्यसमंजसप्रवृत्याऽप्रतिहतप्रसरस्तत्प्रादुर्भाव इति कथं तत्क्षयविधायिता तस्य स्यात् ॥ : अथास्तु नटविटादीनां तत्प्रादुर्भावः किनश्छिन्नम् ।। न तावतापि श्राद्धानां श्रद्धया स्नात्रं विदधानानां तज्जन्यपुण्हहानिरितिचेन्न ॥ तेषां तत्प्रादुर्भावस्य सुरतादिवशप्रादुष्यद्भगवदाशातनायाश्चानन्तसंसारकारिण्या रात्रिस्नात्रकारिश्रावकनिबन्धनत्वात् ॥ मज्जनव्याजमन्तरेण निशीथिन्यां तेषां रतार्थमपि प्रायेण जिनभवनागमनासम्भवात् ॥ एवं च नटादिरागादि वृद्धिनिमित्तभावमासेदुषां श्रावकाणां कथं न मज्जनजन्यपुण्यनाशः ॥ ___ किञ्च नटाद्यसमञ्जसप्रवृत्तिदर्शनेन श्राद्धानामप्यविवेकिनां केषाञ्चिदिदानी जिनगृहे तथा प्रवृत्त्युपलम्भात् ॥ तदुक्तम् ॥ एक्केण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो ॥ सायाबहुलपरम्परखुच्छेउ संयमतवाणं ॥
तथाच तेषां कथं मज्जनादिजन्यपुण्यगन्धोपीति चिन्त्यतां सूक्ष्मधिया ॥ भगवद्भिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org