________________
७०
श्री सङ्घपट्टकः किं पुनरम्य इत्यपि शब्दार्थः ॥ ____ व्यावृत्तिमपसरणं कुपथात् अधिकृतात् कुमार्गात् जडाः स्वहिताहितविवेकशून्याः न दधते न चेतसि धारयन्ति न कुर्वन्तीत्यर्थः न केवलं व्यावृत्तिं स्वयं न दधते असूयन्ति च इय॑न्ति सगुणो दोषमारोपयन्तीतियावत् चः समुच्चये एतां कुपथव्यावृत्ति करोति एतत्कृत् तस्मै ॥ क्रुधगुहेर्धेत्यादिना चतुर्थी ॥ महासत्त्वाय कस्मैचित्कुपथव्यावृत्तिविधायिने ॥ ____ अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छब्दस्तच्छब्दोपादानं विनापि तदर्थं गमयति ॥ यथा ॥ साधु चन्द्रमसि पुष्करैः कृतं, मीलितं यदभिरामताधिकं इति ॥ तेनायमर्थः ॥ तेषां हि दृष्टदोषत्वात् कुपथात्तावत्स्वयं व्यावृत्तिः कर्तुं युक्ता ॥अथ कुतोपि हेतोः स्वयं न व्यावर्तन्ते तदा तव्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः ॥ यत्पुनरमी द्वयमध्यादेकमपि कर्तुं नोत्सहन्ते प्रत्युत कुपथनिवृत्तिविधायिनि कस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते तत्किममी दिग्मोहमिता इत्यादि योज्यम् ॥ तेनैतदुक्तं भवति ॥ दिग्मूढादयो हि हितैषिणा व्यावर्त्तमाना अपि दिग्मोहादेावृत्तिमात्रमेव न कुर्वन्ति ॥एतेतुन केवल कुपथान्न व्यावर्तन्ते यावताकुपथव्यावृत्तिकारिणेऽसूयन्त्यपीति तेभ्योप्यमी कुत्सिता इति वृत्तार्थः ॥१७॥ .
साम्प्रतं लिङ्गिदेशनया श्राद्धैरविधिविहितस्य जिनमज्जनस्यापि दुर्गतिपातहेतुत्वप्रतिपादनद्वारेण श्रुतपथावज्ञां दर्शयन्नाह ॥
॥ मूलकाव्यम् ॥ इष्टावाप्तितुष्टनटविटभटचेटकपेटकाकुलम्, निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कुलम् । रागद्वेषमत्सेराघनमघपङ्केनिमज्जनम्,
जनयत्येव मूढजनविहितमविधिना जैनमज्जनम् ॥१८॥ टीका:-जैनमज्जनं भगवद्विम्बस्नात्रं कर्तृ जनयत्येव संपादयत्येव नतु कदाचिन्न जनयत्येवकारार्थः ॥ अघपङ्के पापकर्दमे निमज्जनं बुडनं कर्म तत्कर्तृणामितिशेषः ॥ अथ कथं पुण्याय विधीयमानं जिनस्नानं पापपङ्कनिमज्जनाय प्रभवतीत्यत आह ॥
अविधिना सिद्धान्तोक्तक्रमविपर्ययेण प्राक्तनविशेषणान्यथानुपपत्यारात्रा-वित्यर्थः ॥ सिद्धान्ते हि रजन्यां जिनस्नानं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः ॥ अथ कं दोषमभिप्रेत्य सिद्धान्ते रात्रिस्नात्रनिवारणमिति दोषप्रदर्शनाय हेतुगर्भ विशेषणत्रयं मज्जनस्याह॥
इष्टावाप्ति इत्यादि ॥ इष्टाया वल्लभाया मज्जनदर्शनमिषेणागताया अवाप्ति मेलकस्तया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org