________________
विभाग-१, बृहद्वृत्तिः निर्मायं यतितव्यम् ॥
यदाह ॥ क जं नाणाईयं, सच्चं पुण संजमो मुणेयव्वो ॥ जह जह सो होइ थिरो, तह तह कायव्वं कुणसु ॥ दोसा जेण निरुज्जंति, जेण खिजंति पुव्वकम्माई ॥ सो सो मुक्खोवाओ, रोगावत्थासु समणं
व॥
___ न चागमे सुखलिप्सया किञ्चित्सूत्रितं, किन्तर्हि यावता विना संयमज्ञानदियात्रा नोत्सर्पति तावन्मात्रस्यैव विहितनिवारणस्य निवारितविधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् ॥ ___ एवं च कथं श्रुतस्याव्यवस्था ॥ भगवन्मार्गस्य चौदेशिकभोजनादेः सर्वस्यापि सार्वदिकतया निस्तूंशत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः ॥ तथा च तस्य महासावद्यत्वेन ज्ञानादियात्राह्नियमाणत्वात् कथं प्रामाण्यमित्यहो अकलितगुणदोषविभागः स्वपक्षानुरागः खलानां यद्भगवन्मतस्याव्यवस्थापादनेन स्वमतस्योत्कर्षप्रदर्शनम् । न हि तेजसः सकाशात् कदाचित् तमस उत्कर्षसम्भव इति ॥ __ किञ्च तीर्थंकरगणधरपूर्वधरादिसातिशयमहापुरुषविरहे सम्प्रति तत्सिद्धान्त एव नः प्रमाणम् ॥ यदुक्तम् ॥ नो पिच्छामो सव्वन्नुणो सयं न मणपज्जवजिणाई ॥ नय चउदसदसपुव्विप्पमुहे विस्सुयसुयहरेवि ॥ एवं पि अम्हसरणं ताणं चक्खुगइपइवोय ॥ भयवं सिद्धन्तोच्चिय, अविरुद्धो इट्ट दितुहि ॥
तस्य च प्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोप्यऽप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तमूलरजोहरणादिवेषपरित्यागापत्तिः ॥ यदुक्तम् ॥ आणाएच्चिय चरणं, तब्भङ्गे जाण किं न भग्गं ति । आणं च अइक्कंतो कस्साएसा कुणइ सेसं ॥ · · तथा चायं सुखाशया भवत्कल्पितः पन्थाः सकलोपि विशरारुतामापद्येतेत्यहोलाभमिच्छोनी व्यापिव्ययः संवृत्तः ॥ यदपि, रुग्विणः कल्यतां यान्तीत्यादिश्लोकबलेन स्व- . प्रकल्पितक्रियायाः सुकुमाराया मोक्षाङ्गत्वसमर्थनं तदप्यसुन्दरम् ॥ यत एतच्छ्लोकार्थ एवमागमे विधीयते ॥ मउइ एवि किरियाए कालेणारोगयं जह उवेंति ॥ तह चेव उ निव्वाणं जीवा सिद्धत किरियाणत्ति । अत्र हि सिद्धान्तक्रियाया एव चिरन्तनमुनिक्रियापेक्षया कोमलाया अपि निर्वाणाङ्गत्वं प्रतिपादितं न तु त्वदभिप्रेतोत्सूत्रक्रियाभासस्य ॥
· अतो भवदभिमतक्रियाया उपदर्शितन्यायेन तद्विपर्ययप्रसाधनान्न तत्श्लोकबलेन भवत्प्रकल्पितश्रुताप्रामाण्यसिद्धिः ॥ एवं च लिङ्गदेशनया श्रुतस्य मूनि पदकरणमसाम्प्रतमपि कृत्वा यदमी प्रत्यक्षगोचराः श्रावकजनाः सुदृढगच्छग्रहग्रन्थयो दृष्टोरुदोषा अपि साक्षात्कृतगुरुतरपूर्वोदितकुपथापराधा अपि ॥ अदृष्टदोषा हि विवेकिनोपि कुपथादपि न निवर्तितुमीशते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org