________________
६८
श्री सङ्घपट्टकः त्वादनाकर्णयन्तो दुष्टवैतालिकादिवचो निन्दार्थमपि स्तुत्यर्थतयावगम्य तद्दानादौ प्रवर्तमाना स्तत्त्वं बोधिता अपि स्वनिर्बन्धाना निवर्तन्ते ॥ एवमिमेपि सदोषमपि कुपथं स्वगच्छादिग्रहान्निर्दोषतयावबुध्य ततोऽनिवर्तमाना स्तथोच्यन्ते ॥ एवमुत्तरपदेष्वपि भावनीयम् ॥
तथा किं वशीकरणादिहेतुरनेकद्रव्यमेलकः पादप्रलेपादियोगः ताहगेव नयनाञ्जनादिचूर्ण योगश्च चूर्णं ते विद्यते येषामिति विग्रहे तदस्यास्तीतीन् ॥ अयोगचूर्णिनो योगचूर्णिनःकृताः योगचूर्णीकृता अभूततद्भावेच्विः मस्तकादिषु योगचूर्णक्षेपेण वशीकृता इत्यर्थः ॥ यथा केनापि धूर्तेन क्षिप्तयोगचूर्णाः पुमान्स आत्मानोऽहितैषिणमपि तं हितैषितया मन्यमानाः केनापि तत्त्वं प्रतिपाद्यमाना अपि योगादिप्रभावेन तद्वचनकरणान्न निवर्तन्ते तथैतेपि कुपथादिति पूर्ववत् ॥
किं दैवेन प्रतिकूलविधिनोपहताः सद्बुद्धिभ्रंशं प्रापिताः ॥ ते हि विधिवशेन विपर्यस्तमतित्वादकृत्यमपि स्तेयादिकं कृत्यतया मन्वानास्तत्त्वं प्रतिपाद्यामाना अपि दुर्दैवमहिम्ना ततो न निवर्तन्ते तथैतेपि किं अङ्गेति पार्श्ववया॑मन्त्रणं किं ठगिताः मन्त्रादिप्रयोगेण स्वायत्तीकृताः ॥ .
यथा हि केचन केनापि दुर्मान्त्रिकेण वशीकरणमन्त्रेण तथाकृतास्तद्वचनमसमीचीनमप्यत्यन्तसमीचीनतयाऽभ्युपगच्छन्तस्तत्त्वमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्तते एवमेतेपि ॥ किञ्चेति पक्षान्तरे ग्रहैर्भूतादिभिरावेशिताः कृतावेशाविहितशरीराधिष्ठाना इतियावत्॥
यथा भूताद्यधिष्ठितास्तदावेशाद्विधेयापरिज्ञानेनाविधेयमपि पितृप्रहारादिकं विदधानास्ततो निवर्त्यमाना अपि न निवर्तन्ते एवमेतेपि सदसद्विवेकविकलतया कुपथान्न निवर्त्तन्त इति ॥ अत्र च दिग्मूढादिबहुधाविकल्पप्रदर्शनमाधुनिकश्राद्धलोकानामत्यन्तानिवर्त्यस्वगच्छग्रहग्रस्तत्वज्ञापनार्थम् ॥
कृत्वा विधाय मूनि शिरसि पदं पादं श्रुतस्य सिद्धान्तोक्तातिक्रमेण निःशङ्कतया स्वगुरुलिङ्गिप्रवर्तितासन्मार्गपोषणमेव श्रुतमूनि पादकरणं श्रुतमूनि पादन्यासे च तेषामिदं बीजम् ॥ भगवत्सिद्धान्तो हि नैकान्तेनैव विहितानुष्ठानविधिनिष्ठ इत्यादि विवेकिनां निःश्रेयसाय भविष्यति किं श्रुतेनेत्यन्तं लिङ्गिभिर्यदुक्तं मूलपूर्वपक्षे ॥ तस्योपदेशस्य सततं तत्सकाशे श्रवणमिति ॥ एतच्चायुक्तम् ॥
यतः, न विकिञ्चीत्याद्यागमशकलस्येदमुतरार्धं ॥ एसा तेसिं आणा, कज्जे सच्चेण होयव्वमिति ॥ अस्य चायमर्थः ॥ एषा भगवतामाज्ञा यत् कार्ये सत्येन भवितव्यम् ॥ कोर्थः कार्यं ज्ञानादित्रयम् ॥ सत्यं च संयमः ॥ यथा यथा ज्ञानादिकं संयमश्चोत्सर्ग्यतस्तथातथा यतिना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org