________________
विभाग-१, बृहद्वृत्तिः
बोहिघाओ निदंसिओ | अतः कथमेषां सद्गुरुतया लोको वाहनीयो भविष्यति ॥
अथैवंविधैरेभिः कथं तर्हि वाहयितुं लोकः पार्यते अत आह कृतमुनिव्याजैः ॥ प्रपञ्चचतुरतया विश्वासोत्पादनेन मुग्धजनस्य विप्रलिप्सया रचितशांतरुपमासोपवासकरणादिसुविहितछद्मभिः ॥ अयमर्थः ॥ एवमसमंजसकारिणोपि लिङ्गिनो विश्रम्भहेतुतथाविधयतिरूपप्रदर्शनेन सुखकरपथप्ररूपणेन च सुखलुब्धान् मुग्धान् प्रलोभ्य यथेच्छं वाहयन्तीति ॥
यदुक्तम् ॥ अवरे नियडिपहाणा पयडिवेसासियं षणं रूवं ॥ सुहलुद्धखद्धजणवंचणेण कप्पिति नियवित्तिं ॥ अमुमेवार्थं समर्थयितुं प्रकारान्तरेण लोकवाहनप्रतिकारमसंभावयन् सविषादमनुगुणं वैधर्म्येणार्थान्तरन्यासमाह ॥
नीराजकं ॥ विगतसहाज्ञैश्वर्यन्यायगोपायितप्रजादुष्टशिक्षाशिष्टरक्षाविचक्षणभूपं किंराजसहितमपि नीराजकमिव नीराजकमुच्यते हा इतिविषादे जगद्भुवनम् ॥ न ह्यन्यथोदितगुणभाजि राजनि बलाल्लोकवाहनं कर्तुं लभ्यते ॥ अयमाशयः ॥ यथा सगुणं राजानं विना तद्देशः प्रतिभूपमलिम्लुचादिभिरुपद्रूयते एवं सम्प्रति प्रौढसातिशयबहुजनापेक्षणीयगणधरादिपुरुषसिंहविरहाल्लिङ्गिभिरयं श्राद्धजनो वाह्यत इति वृत्तार्थः ॥ १६ ॥
६७
अधुना लिङ्गिनो वैशसं दृष्ट्वापि कदाग्रहात्तत्प्रथितकापथादऽनिवृत्तमानान्मूढान्दिग्मूढत्वादिना विकल्पयन्नाह ॥
॥ मूलकाव्यम् ॥
किं दिग्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्ग ठगिताः किंवा ग्रहावेशिताः । कृत्वा मूर्ध्निपदं श्रुतस्य यदमी दृष्टोरुदोषा अपि व्यावृत्ति कुपथाज्जडा न दधते सूयंति चैतत्कृते ॥१७॥
टीका:- किंशब्दाः सर्वेपि विकल्पार्थाः ॥ किममी जडा दिग्मोहः कुतश्चिददृष्टादिनिमित्तात् प्राच्यादिदिक्षु प्रतीच्यादिभ्रमस्तमिताः प्राप्ताः ॥ अयमर्थः ॥ यथा दिग्मूढाः प्राचीं प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्त्या ज्ञापिततत्त्वा अपि तदध्यवसायान्न निर्वर्तन्त एवमेतेपि विदित कुपथदोषा अपि कुतोपि हेतोस्ततोऽनिवर्तमानास्तत्साम्यात्तथोच्यन्ते ॥
Jain Education International
कन्धा नयनहीना बधिरा उपहतश्रवणाः अन्धाश्च बधिराश्चेतिद्वन्द्वः ॥ ते किमन्धाः किं बधिरा इत्यर्थः ॥ यथान्धादृग्विकलत्वात्सम्यकपन्थानमजानाना अपथमपि सत्पथतयाऽवगम्य तत्रगच्छन्तो हितैषिणा तत्त्वं ज्ञाप्यमाना अपि स्वग्रहान्न निवर्त्तन्ते यथा च बधिराः श्रुतिविकल
For Personal & Private Use Only
www.jainelibrary.org