________________
६६
श्री सङ्घपट्टकः प्रयोगेणाऽर्थ गृहीतोऽधमर्णः ॥ अत्र च यैरितिकर्तृतया सम्बन्धानुपपत्तेर्येषामिति सम्बन्धविवक्षया यच्छब्दो योज्यः ॥ अर्थवशाद्विभक्तिपरिणाम इतिवचनात् ॥ तेन येषां लिङ्गिनामयं जनोऽधमोर्थधारयिता न भवति एवमुत्तरत्रापि यथासंभवं येषामिति सम्बन्धनीयम् ॥ ___ तथा ॥ यैःप्राग्पूर्वं दृष्टोऽवलोकितो न च ॥ अयमर्थः ॥ यैर्लिङ्गिभिः स्वश्राद्धा दविष्टदेशवर्तित्वात्कदाचिदपि न दृष्टास्ते पि स्वगच्छग्रहग्रस्तत्वादन्यं गुरुं वाचापि न सम्भाषन्ते ॥ तमेव गच्छगुरुं ध्यायतःकालमतिवाहयन्ति ॥ ___ बान्धवः पितृभातृव्यादिसम्बन्धभाग् न च येषां ॥ न च प्रेयान् वल्लभतरो मैत्र्यादिसम्बन्धेन नच प्रीणितो दानज्ञानातिशयादिना तोषितः ॥ अत्र चेदानींतनरूढ्या यद्यपि केषांचिद्वधितत्वादिसंभवस्तथाप्ययं पटसंवृत एव शोभत इति न्यायेनातिलज्जनीयत्वादिना तदविवक्षणान्न च वद्धित इत्याद्युक्तं तथा केषाञ्चिद्वान्धवत्वादिसंभवेपि दवीयसां भूयसां च तदसंभवेन तदविवक्षणान्नच बान्धव इत्याधुक्तमिति ॥
तैरेव प्रागुक्तसम्बन्धाभावेन लोकवाहनयोग्यताविकलैलिङ्गिभिरेव एवेत्यव्ययमिह परिभवे ॥ ईषदर्थे परिभवेप्येवौपम्येऽवधारण इति विश्वप्रकाशवचनात् ॥ ततश्चमहान् पराभवोऽयं यत्तादृशैरपि लिङ्गिभिर्लोको वाह्यत इति ॥ बलात् हठेन नतु प्रणयेन वाह्यते वशीकृत्य स्वकार्याणि कार्यते ॥
अयं गच्छमहाग्रहगृहीतः प्रत्यक्षोपलभ्यमानो जनःश्राद्धलोको नस्योतो नास्तित इव पशुवत् वृषभादिरिव ॥ यथा रज्जुनियमितनासो वृषभादिर्यदृच्छया वाह्यते यत्रतत्र नीयते तथा लोकोपि लिङ्गिवाह्यत्वेनोपचारान्नश्योत इत्युच्यते ॥
ननु पशुवद्रज्जुबद्धनाशतया अनिशमनवरतं न तु सकृत् वारमेकं किलैवमपि कोपि वाह्यतोपि ॥ एतदुक्तं भवति ॥ किल जननवर्धनक्रयणाधमर्णत्वप्राग्दर्शनबान्धवत्व प्रेयस्त्वप्रीणनादिसम्बन्धैर्बलादपि जनो वाहयितुंपार्यते लोके तथाव्यवहार दर्शनात् ॥ लिङ्गिभिस्तूदितसम्बन्धानन्तरेणापि यदेवं लोको वाह्यते तन्महापरिभव इति ॥
ननूक्तसम्बन्धप्रतिबन्धं विनापि सद्गुरुत्वेन तेषां नास्तितपशुवल्लोकाः कार्याणि निर्मापयिष्यन्ते ॥ नानुपकृतपरहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कर्तुं शक्यते ॥ यदुक्तम् ॥ भावाणुवत्तणं तह, सव्वपयत्तेण तेण कायव्वं, समत्तदायगाणं, दुष्पडियारं जओ भणियं ॥
अत आह ॥ अत्यधमाधमैरिति ॥ लोकलोकोत्तरगर्हिततमसाध्वीप्रतिसेवादेवद्रव्यभक्षणसुविहितघातशासनोड्डाहप्रभृतिभूरिपापकर्मनिर्माणादतिशयेनाधमेभ्योपि हीनजातीयेभ्योप्यधमैरहीनैर्यदुक्तम् ॥ संजइपडिसेवाए देवदव्वस्सभक्खणेणं च ॥ इसिघाएपवयणुड्डाहे,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org