________________
विभाग-१, बृहद्वृत्तिः
गृही प्रायेण कुटुम्बमध्यात् सौजन्यपरोपकारादिसत्पुरुषगुणहीनमपि ग्रन्थार्जनगृहकर्मकरणादिमात्रप्रवणं पुत्रादिकं बहुमन्यते तदन्यं चावमन्यते तथा गच्छमध्याद्विश्रामणादिषु शुश्रूषाकारिणं सदोषमपि भूषयति । तदन्यं च सद्गुणभूषणमपि दूषयति इति गृहिकुटुम्ब - प्रक्रियावर्त्तित्वात्तथाभिधीयत इति ॥
तथा स्वमात्मानं शक्रीयति ॥ शक्रमिव पुरन्दरमिवाचरति ॥ स हि नीचत्वात्तथाविधचैत्यद्रव्यशिष्यश्रावकादिसमृद्धिदर्शनान्मदिष्णुः शक्रोहमित्यभिमन्यत इति तथा कतिपयाक्षरलेशलेपदिग्जिहूतया मदावलेपाद्बालिशीयति बालिशानिव मूर्खानिवाचरति बुधान् कुशाग्रीयबुद्धीन् विचक्षणान् अहमेव सकलवाङ्मयपारपारदृश्वा किममी अज्ञा विदन्तीति ॥
तथा अत एव विश्वं जगद्वराकीयति वराकमिव रङ्कमिवाचरति । स हि रसादिगौरवमदिरामदपूर्णमाननयनतया जगदपि मत्पुरतः क्षितकमिति मनुते ॥ यदुक्तम् ॥ अखर्वगर्वसंभाराः समासाद्य महापदम् ॥ नीचास्तृणाय मन्यन्ते, निर्विकल्पतया जगत् ॥
६५
अयमाशयः ॥ ईश्वरो हि कश्चित् प्रव्रज्य प्राप्ताचार्यपदः सन्निर्विवेकतया कथञ्चित्तच्चैत्यगृहादिषु गृहीयतीत्यादिकं विदधानोपि न तथा लोकानां चित्रीयते ॥ गृहवासेप दुर्ललितत्वस्य लोकैस्तथा दर्शनात् ॥ अयं तु रङ्कशिशुर्दीक्षित्वा सूरिपदासादनेन तथा कुर्वाणो जनानामुपहासविषयतया महदाश्चर्यभाजनमिति ॥ तदहो अत्यन्तमाचार्याद्यनुचितचैत्यगृहगृहीत्यादिनाऽसच्चेष्टितेन श्रुतपथावज्ञा पापानां मलिनयति प्रवचनमिति वृत्तार्थः ॥ १५ ॥ सम्प्रति पितृपुत्रादिसम्बन्धं विनापि हठाल्लिङ्गिविहितलोकवाहनोपालम्भद्वारेण श्रुतावज्ञां प्रतिपादयन्नाह ॥
॥ मूलकाव्यम् ॥
यैर्जातो नच वर्द्धितो नच न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो नच नच प्रेयान्न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते,
Jain Education International
नस्योतः पशुवज्जनोयमनिशं नीराजकं हा जगत् ॥१६॥
टीका:-यैर्लिङ्गिभिरयं जनो नचजातो जनरंतर्भावितण्यन्तर्थत्वान्न जनितः पित्रादिरूपतया न जन्म लम्भितः ॥ चकाराः सर्वेपि समुच्चयार्थाः अवधारणार्था वा ॥ अथ माभूज्जातस्तथापि वर्द्धितो भविष्यत्येतावतापि बलात्तद्वाहनसिद्धिरत आह ॥ वर्द्धितोन चेति एवमुत्तरपदेष्वप्याशंक्य योजना कार्या वर्द्धितो योगक्षेमादिसंपादनेन शरीरपोषं प्रापितः ॥
नच क्रीतो मूल्यदानेनाऽन्यस्माद्गृहीतः ॥ अधमर्णो नच उत्तमर्णसकाशादुद्धारादि
For Personal & Private Use Only
www.jainelibrary.org