________________
६४
श्री सङ्घपट्टकः
अन्यथा सम्प्रति प्रत्यक्ष एवायमर्थ इति ॥
कोपि अज्ञातनामा रङ्को भिक्षाकोऽत एव कुत्सितोऽनुकम्पितो वा शिशुरर्भकः शिशुकुत्सायामनुकम्पने वा कः ॥ ततोरडूश्चासौ शिशुकश्चेति कर्मधारयः ॥ रङ्कस्य वा कस्यचिच्छिशुक इति ॥ अनेन परम्परयापि तस्य भिक्षाकत्वं निवेदितं ॥ एतेन प्रव्रज्याया अपि तस्यायोग्यतामाह ॥
कुलशीलादिविकलत्वात्तद्युक्तस्यैव दीक्षायोग्यतायाः प्राक्प्रतिपादनात् ॥ प्रव्रज्य मुण्डीभूय ॥ चैत्येलिङ्गि सम्बन्धिनि जिनगृहे क्वचिदनिर्दिष्टनाम्नि कृत्वा विधाय लञ्चादिना कञ्चन कमपि बद्धमूलं बलीयांसं संयतं श्रावकं वा पक्षं सहायम् ॥ नहि तादृक् साहाय्यं विना तादृशामाचार्यपदलाभसम्भवः ॥ ___ अक्षतकलिः यत् किञ्चिन्निमित्तमात्रं प्राप्य शिष्यादिभिः सह नक्तंदिनमखंडितकलहः ॥ एतेनाचार्यपदानौचित्यं तस्याह ॥ निनिमित्तात्यंतकोपनस्य सकलगच्छोद्वेगवेग हेतुत्वेनाचार्यपदायोग्यत्वात् ॥ सोमो पसंतहियओ गुरू होइ इत्यादिवचनात् ॥
इह च कलिग्रहणमन्येषामप्याचार्यपदायोग्यतापादकानां स्तम्भदम्भलोभमूर्खत्वादिदोषाणामुपलक्षणम् ॥ ततः सकलसूरिपदानुगुणगणरहित इत्यर्थः ॥ अत एवापात्राणां सूरिपददातुरपि पापीयस्त्वमुक्तमागमे ॥
यदाह । बूढो गणहरसद्दो, गोयममाइहिं धीरपुरिसेहिं, जोतं ठवइ अपत्ते, जाणंतो सो महापावो ॥ लोगंमिवि उवघाओ, जत्थ गुरू एरिसो तहिं सीसा ॥ लट्ठयरा अन्नेसिं, अणाय रो होइय गुणेसुत्ति ॥ प्राप्त आसेदिवान्सन् तदिति विवेकिनां विडंबनास्पदम् आचार्यकम् आचार्यत्वं सूरिपदमित्यर्थः ॥
अत्र च योपधातृतीयादिगुरोरकणित्यनेन भावेऽकण तद्वितः ॥ चित्रमद्भुतमेतत् यच्चैत्यगृहे देवभवने गृहीयति गृहम् इवाचरति यथा निजसदने गृही शयनासनपानपचनसम्भोग ताम्बूलभक्षणादिकं निश्शङ्कमाचरति तथायमपि केवलभक्तियोग्येपि जिनमन्दिरेऽत्यन्तानुचितमप्येतद्यथेच्छं समाचरन्नेवमुच्यत इति ॥ ___ निजे स्वकीये गच्छे कुटुम्बीयति कुटुम्ब इवाचरति ॥ यथा हि गृहस्थः स्वकुटुम्बे पर्वदिनेषु भातृजामातृमातृभगिनिपुत्रिकादिसम्बन्धेन निमन्त्रणादानानुप्रदानादिषु प्रवर्त्तत एवमेषोपि साध्वादिवर्गे तथा प्रवर्त्तमान एवमुच्यते ॥ ___ यदि वा आचार्येण हि स्मारणावारणादिपुरस्सरं प्रत्युपेक्षणप्रमार्जनविनेयाध्ययनाध्यापनादिनोत्तरोत्तरगुणस्थानाधिरोपणेन स्वगच्छःप्रतिक्षणमवेक्षणीयः यथा गुणंच प्रतीक्ष्यो यथा दोषं च शिक्षणीय इति सिद्धान्तस्थितिः ॥अयं तु गर्वोद्भुरकन्धरतया तामव-गणय्य यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org