________________
विभाग-१, बृहद्वृत्तिः तत्सर्वथास्मच्चेतस्यमीषां सन्मार्गव्यवस्थापने न कश्चिदुपायः प्रतिस्फुरति ॥अतः किं कुर्मह इति विषादवचनम् ॥
इदमत्रैदंपर्यम् ॥ महासत्त्वसत्त्वोपादेयोह्ययं सद्धर्म एते चातिक्लीबा अन्यथा कि विदुषां गच्छस्थितिभिया ॥ यदि हि लिङ्गिनःस्वलाभादिहेतुना गच्छस्थितिं दर्शयन्ति तथापिगृहिणा परीक्षापुरःसरं धर्मं प्रतिपत्तव्यः॥
यतो भगवानेवाह ॥ निकषछेदतापाभ्यां सुवर्णमिव पण्डितैः ॥ परीक्ष्य भिक्षवो ग्राह्यं, मद्वचो नतु गौरवात् ॥ आगमेप्युदितम् ॥ सल्लुधरणनिमित्तं गीयस्सन्नेसणाउ उक्कोसा जोयणसयाइं सत्त उ बारसवरिसाइं कायव्वा ॥
तथा सम्प्रदायागतस्यापि निर्गुणस्य गच्छस्यागमे यतीनामपि परिहारश्रवणात् ॥ यदुक्तम् ॥ सारणमाइ वित्तं गच्छंविहु गुरुगुणेण परिहीणं ॥ परिचत्तनाइवग्गो चइज्जतं सुत्तविहिणाउ॥
एवं च यदा कृतदिगबन्धानामपि यतीनां निर्गुणगच्छपरिहारः प्रतिपादितस्तदा का कथा श्राद्धानामिति ॥ तदेवंविधानामपि य गच्छस्थितिभिया तेषां न सद्धर्माभ्युपगमस्तदहो बलीयसी गच्छमुद्रातिरयति विवेकाङ्करं ॥ यदुक्तम् ॥ जीवाः प्रमादमदिराहतहृद्यविद्या अप्यन्यथा सुपथि सम्प्रति नोत्सहन्ते ॥ हा मज्जनाय तु भवांभसि लिङ्गिभिः किं गच्छस्थिति विनिहतेव गले शिलैषा ॥ तद्गच्छस्थितेरपि बिभ्यतो धर्मानधिकारिण एव ते वराका अनात्मनीना असमर्थत्वात् समर्थस्यैव हि शास्त्रे तत्थहिगारी अच्छी समत्थओ इत्यादिना धर्माधिकारित्वप्रतिपादनात् ॥ समर्थस्यैवं लक्षणत्वात् ॥ होइ समत्थो धम्मंकुणमाणो जो न वाहइ परसि ॥ माइपिइसामिगुरु माइयाण धम्मेण भिन्नाणं ॥ तद्यवस्थितमेतत् कं ब्रूम इत्यादीति वृत्तार्थः ॥१४॥ इदानीं कस्यचिदयोग्यस्याचार्यपदप्राप्त्या तदसच्चेष्टितप्रदर्शनेन श्रुतावझा ज्ञापयन्नाह ॥
॥ मूलकाव्यम् ॥ क्षुत्क्षामःकिल कोपि रङ्कशिशुकः प्रव्रज्य चैत्यै क्वचित्, कृत्वा कञ्चन पक्षमक्षितकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छेकुटुम्बीयति स्वम्,
शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥१५॥ टीका:-क्षुत्क्षामो बुभुक्षा श्लक्षणाकुक्षिः गृहस्थावस्थायां किलेति संभावनायां प्रत्यक्षोपलब्धमर्थं संभावनास्पदतयेवसन्तो वदन्तीतिन्यायः ॥ अतस्तद् ज्ञापनाय किलेति पदम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org