________________
६२
श्री सङ्घपट्टकः सेअत्थिणो बहुया ॥ रयणत्थिणोतिथोवा तद्दायारोवि जहउ लोगंमि ॥ इयसुधम्म रयणत्थिदायगा दढयरं नेया ॥ बहुगुणविहवेण जओ एए लब्भंति ता कहमिमेसुं ॥ एयदरिदाणं तह, सुमिणेवि पयट्टई चिन्ता ॥
जातायामपि कथञ्चित्किंचिद्भव्यत्वपरिपाकात्प्रादुर्भूतायामपि सद्धर्मबुद्धौ दुर्लभोदुरासदः शुभगुरुर्यथार्थसिद्धान्तप्ररुपणनिपुणो लोकप्रवाहबहिर्भूतचेतोवृत्तिः प्रतिवादिमदक्षोदक्षमः कालाद्यपेक्षानुष्ठानपटिष्टःसूरिः ॥ अयमर्थः ॥ सद्धर्ममनोरथभावेपि सदुपदेष्ट्रगुरुं विना नासावासाद्यते ॥
यदुक्तम् ॥ धम्मायरियेण विणा, अलहंता, सिद्धिसाहणोवायं ॥ अरएव्वतुंबलग्गा भमंति संसारचक्कंमि ॥ स च प्रायेण साम्प्रतमुत्सूत्रभाषकाचार्यप्राचुर्येण तथाविधो नाल्पभाग्यलभ्यः ॥
यदुक्तम् ॥ यस्यानल्पविकल्पजल्पलहरीयुग्युक्तयः सूक्तयः सज्जं जर्जरयन्ति संसदि मदं विस्फूर्जतां वादिनाम् ॥ यश्चोत्सूत्रपदं न जातु दिशति व्याख्यासु स प्राप्यते सच्चारित्र- पवित्रितः शुभगुरुः पुण्यैरगण्यैर्यदि ॥
प्राप्तः समासादितः स उदितगुणगुरुर्गुरुः पुण्येन भवान्तरसंभृतसुकृतेन चेत्यदि तथापि शुभगुरुप्राप्तावपिकर्तुं विधातुं स्वहितमात्मन आयति सुखावहं कर्म सद्धर्मप्रतिपत्ति लक्षणं नालं न समर्थाः ॥ अमी पुण्यप्राप्तशुभगुरवो माः ॥ आसादितसुगुरवोपि ते किमिति न स्वहिताय यतन्त इत्यत आह ॥
गच्छस्य स्ववंश्याभ्युपेतयतिवर्गस्य स्थितिः युष्मत्कुलादृतोयं गच्छोऽत एनं विहाय युष्माभिर्नान्यपार्वे देशनाश्रवणसम्यक्त्वप्रतिपत्त्यादिकं विधेयमिति गृहिण:प्रतीत्य लिङ्गिकृता व्यवस्था तया व्याहता एवंविधशुभगुरुप्राप्तावपि निःसत्त्वतया किमेनां गच्छस्थितिं मुञ्चामो नवेतीतिकर्तव्यतोद्धान्तान्तःकरणाः एवं गच्छस्थितिव्याहताः तेषां स्वहितकरणासामर्थ्य मुपलभ्य तदुपचिकिर्षुश्चेतःसमुल्लसत्करुणापारावारः प्रकरणकारः प्राह ॥ ___किं ब्रूम इत्यादि ॥ अतःकं पुरुषविशेषं ब्रूमो भणामः कम् इह जगति आश्रयेमहि सेवेमहि ॥ कम् आराध्येम दानादिनोपचरामः ॥ एतेषां भणनादीनां मध्यात्कि कुर्महे विदद्महे ॥ यदि हि कस्यचिन्महात्मनो भणनेनाश्रयणेनाराधनेन वा गच्छस्थितिं विमुच्य सद्धमप्रतिपत्तौ ते स्वहितमाचरन्ति तदैतदपि क्रियते ॥ परोपकृतिदीक्षितत्वात्सत्पुरुषाणामिति ॥
॥अथवा ॥ यदा हि प्राप्तसुगुरवोपि तत्त्वं जानाना अप्येवं गच्छस्थित्या व्यामुह्यन्ति तदा कं ब्रूम इत्यादि।अयमर्थः ॥अजानानो हि तत्त्वं स्वयं वा कस्यचिद्भणनाराधनादिना वा तद्बोधयित्वा सद्धर्मे स्थाप्येतापि एते च मूढा जानंतोपि गच्छस्थितिव्याहता इति कथं तत्र स्थापयितुं पार्यन्ते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org