________________
विभाग-१, बृहद्वृत्तिः
यदुक्तम् ॥ अणुसोयपट्ठिए बहुजणंमि पडिसोयलद्धलक्खेणं ॥ पडिसोयमेव अप्पा दायव्वो होउ कामेणं ॥ अणुसोय सुहो लोगो पडिसोओ आसवो सुविहियाणं ॥ अणुसोओ संसारो पडिसोओ तस्स उत्तारो ॥ अत्रासव इति इंद्रियजयादिरुपपरमार्थपेशलः कायवाङ्मनोव्यापारः बहुजनप्रवृत्तिविषयत्वादनुश्रोत स एव सद्धर्मत्वमिति चेत् न विकल्पासहत्वात् ॥ तथाहि किं बहुजनप्रवृत्तिगोचरमात्रं सद्धर्मनिबन्धनम् आहो सिद्धान्तोक्तत्वम् ॥
न तावदाद्यः ॥ बहुजनप्रवृतिगोचरत्वस्य सद्धर्मनिबन्धनत्वाभ्युपगमे लौकिकधर्मस्यैव सद्धर्मत्वप्रसङ्गात्तस्यैव इदानीं पार्थिवादिपुरुषसिंहप्रवृत्तिविषयत्वात् ॥ अथ तस्य पार्थिवादिप्रवृत्तिविषयत्वेपि भगवद्विनेयाप्रवर्तितत्वेन न सद्धमत्वमस्य तु भगवद्विनेयप्रणीतत्वेन तत्त्वमितिचेत् न ॥
बहुजनप्रवृत्तिविषयत्वेन सद्धर्मत्वे प्रतिज्ञाया अनिष्टप्रसङ्गेन तज्जहतो भवतोहेतुहान्योपपत्तेः ॥ किञ्च भवतु भगवद्विनेयप्रणीतत्वेनास्य तत्त्वं तथापि भगवद्विनेयत्वमेवकथमेषामनुश्रोतप्रणेतृणाम् ॥ किं भगवन्मुण्डीकृतत्वेन तदाज्ञाकारित्वेन वा ॥
न तावदाद्यः ॥ भगवन्मुण्डीकृतत्वेन तद्विनेयत्वे जमाल्यादीनामपि तद्विनेयत्व-प्राप्तेः॥ अथ जमाल्यादीनां तद्विनेयत्वं सकलभूतलप्रतीतमशक्यापह्नवमिति चेन्न ॥ तेषां निह्नवत्वेन सिद्धान्ते तद्विनेयाभासत्वप्रसाधनात् ॥ - नापि द्वितीयः ॥ भगवदागमात्यन्तविरुद्धचैत्यवासादिप्रज्ञप्त्या तमेव कदर्थयतां कथं तेषां तदाज्ञाकारित्वं तथा च कथं तद्धिनेयत्वम् ॥
॥ तदुक्तम् ॥ गम्भीरमिणं बालातद्भत्तामोत्तित हकयंत्थता ॥ तं चेव य मन्नंता, अवमन्नंता न याणंति ॥ न हि लोकेपि सत्पितृविरुद्धमाचरतस्तदाज्ञामप्यकुर्वतः पुत्रस्यापि वस्तुतः पुत्रत्वं नाम ॥ तस्मातद्विनेयाभासास्तेऽतस्तत्प्रणीतत्वेनोत्सूत्रत्वाद्भवाभिनंदिबहुजनप्रवृतिविषयत्वेप्यऽनुश्रोत सद्धर्मत्वमेव ॥ अथ द्वितीयः तदेवमेतत् प्रतिश्रोत स एव तु भगवत्प्रज्ञप्तसिद्धान्तोक्तत्वेन कतिपयमहासत्त्वप्रवृतिगोचरत्वेपि सद्धर्मत्वात् ॥ अतोनुश्रोतसो व्यवछेदे न प्रतिश्रोतः संगृहीतुं सदिति विशेषणं विधीयमानं न विवादपदवीमधिरोहति ॥
केषां दुष्प्रापा नृणां पुसां गुरुकर्मसञ्चयवतां महाज्ञानावरणादिसंभारभाजाम् ॥ सम्प्रति हि गुरुकर्मत्वाज्जीवानां न प्रायेण प्रतिश्रोतसि प्रवृत्तिरुपलभ्यते ॥ ___ यंदुक्तम् ॥ अयोग्यभावात् गुरुकर्मयोगाल्लोकप्रवाहस्पृहया दुरापा ॥ प्रायो जनानामधुना प्रवृत्तिः पथि प्रतिश्रोतसि जैनचन्द्रे॥
आगमेप्युक्तम् ॥ बहुजणपवित्तिमित्तं, इच्छन्तेहिं इह लोइओचेव ॥ धम्मो न उज्जियव्वोजेण तहिं बहुजणपवित्ती ॥ तो आणाणुगयं जं, तंचेव बुहेण सेवियव्वं तु ॥ किमिह बहुणा जणेणं हंदि न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org