________________
श्री सङ्घट्टकः
६०
मर्हति विवेकिनाम् ॥ गुणानामेव बहुमानहेतुत्वात् ॥ ते चेत्तत्र न सन्ति तदा किं निःफलेन गुरुपदर्शितेन ॥
यदुक्तम् ॥ गौरवबीजं शिष्ये, गुणाः सतां न गुरुदर्शितत्वं यत् ॥ गुरुदिष्टमप्यसत्त्वाल्लोकायतमतमगौरव्यम् ॥ तथा स्ववंशजाभ्युपगमस्यापि निर्गुणगुरुबहुमानहेतुत्वे लक्ष्मीप्राप्तावपि नृणां स्वकुलक्रमागतदारिद्रादरे परित्यागप्रसङ्गान्न चैवं लोके उपलभ्यते ॥
यदुक्तम्॥ सुगुरुप्राप्तौ कुगुरुं क्रमानुषक्तमपि न जहति धीमन्तः ॥ चिरपरिचितमपिनोज्जति निधिलाभे को नु दौर्गत्यम् ॥ अत एव सिद्धान्ते गुरुगुणहीनस्य गुरोरगुरुत्वेन यतीनामप्यंगारमद्र्दकशिष्याणामिव सद्गुरुगच्छान्तरसंक्रमणेन तत्परित्यागः प्रत्यपादि ॥
यदाह ॥ गुरुगुणरहिओ य गुरु न गुरु विहित्वागमो य तस्सिट्ठी || अन्नत्थसंकमेणं. नउ एगागितणेपि ॥ लौकिका अप्याहुः ॥ गुरोरप्यवलिप्तस्य, कार्याकार्यमजानतः ॥ उत्पथं प्रतिपन्नस्य, परित्यागो विधीयते ॥ ततश्चैवंस्थिते यन्निर्गुणेपि गुरुरेवाभ्युपगमेनाभ्यर्चनाभिसंधिः समहामोहमहिमेतिवृत्तार्थः ॥
एतर्हि गच्छमुद्रामुद्रिततया लोकानां सद्धर्माप्रतिपत्त्यादिना श्रुतावज्ञामीक्षमाणः सविषादमाह ॥
॥ मूलकाव्यम् ॥
दुष्प्रापा गुरुकर्म्मसञ्चयवतां सद्धर्मबुद्धिर्नृणाम्, जातायामपि दुर्लभः शुभगुरुः प्राप्तः स पुण्येन चेत् । कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहताः, कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ॥ १४ ॥
टीका: - दुष्प्रापा दुर्लभा सद्धर्मबुद्धिर्भगवत्प्रणीतनिरुपचरितधर्मजिघृक्षा ॥ अथ पारमेश्वरस्य सर्वस्यापि शोभनत्वाविशेषात् किं सदिति विशेषणेनेतिचेत् न तस्यापीदानीं कालदोषादनु श्रोतः प्रतिश्रोतोरुपत्वेन द्वैविध्यदर्शनात् ॥
तथाहि ।। विषयकुमार्गद्रव्यक्रियानुकूल्ये सुखशीलजनैः सिद्धान्तनिरपेक्षस्वच्छन्दमतिप्ररुपितो बहुजनप्रवृत्तिगोचरः पन्था अनुश्रोतः ॥ अयमर्थः ॥ अनुपथेन हि गच्छतः पुरुषस्य नदी श्रोतः सुगमं सागरगामी च भवति । एवमयमपि प्रकृतो मार्गः सुकरत्वात् संसारप्रापकत्वाच्च तथोच्यते श्रुतोक्तसकलयुक्त्युपपन्नः स्वयंभगवत्प्रज्ञापितः प्रेक्षावत्प्रवृत्ति विषयस्तु प्रतिश्रोतः एतदुक्तं भवति प्रतिपथेन प्रतिष्ठमानस्य हि नदी श्रोतो दुर्गमं पारप्रापकं च जायते एवमयमपि पन्था दुष्करत्वात्संसारतारकत्वाच्चैवमभिधीयते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org