________________
विभाग-१, बृहद्वृत्तिः
५९
अयं तु क्षमाद्यंशेनापि त्यक्तः ॥ तथा शीलं स्वभावः सद्वृत्तं च ॥ अन्वयश्च कुलं शीलंचान्वयश्चेति द्वन्द्वः ॥ ततश्चाज्ञातावविदितौशीलान्वयौ यस्य स तथा तम् ॥ परीक्षितशीलकुलस्य हि प्रव्रज्यादानं शास्त्रेऽभिहितम् ॥ अविदितस्वभावो हि कषायदुष्टादिः क्वचिदपराधे गुर्वादिना शिक्षितस्तमपि जिघांसति ॥
एवमज्ञातवृत्तोपि तस्करादिः प्रव्रजितस्तच्छीलत्वात्स्तैन्यादिकं कदाचिदाचरन् गच्छमपि तुलायामारोपयति ।। तथाऽविदितकुलो दीक्षितः कथमपि कर्मोदयाद्दीक्षां जीहासुर्निरंकुशतया जहात्येव ॥ कुलीनस्तु कदाचिदकार्यं चिकीर्षुरपि कौलिन्यसततगुरुशिक्षानिबिडनिगडनियमो न करोत्येव ॥
यदुक्तम् ॥ अपि निर्गन्तुमनसः प्रव्रज्यामन्दिरान्नरान् ॥ रुणद्धि पुरतः स्थाष्णुरर्गलेव कुलीनता जइविहुनिग्गयभावो तहविहु ररि कज्जए सयन्नेहिं ॥ वंसकुडंगीच्छिन्नोवि वेणुओ पावए न महिं ॥
मुण्डीकृतं दीक्षितम् ॥ गुरुणा आचार्येण ॥ तादृशं विनेयवंशसमे वंशे जातः स अज्ञातकुलोद्भव इत्यर्थः ॥ तथा ते तत्सजातीयविनेयतुल्यागुणाः निःशीलतादयो धर्मास्य तथा ततः कर्मधारयसमासकरणेन गुरुशिष्ययोर्वंशगुणात्यन्तसाजात्यं व्यनक्ति ॥ तादृशो हि तादृशमेव मुण्डयते ॥ समानशीलव्यसनेषु सख्यमितिवचनात् ॥
स्वार्थाय स्वप्रयोजनाय स्वशरीरशुश्रूषादिहेतवे न तु संसारदुःखेभ्यो मोचयितुं तमेवंविदं यदर्चयन्ति मलयजघुसृणघनसारादिना वस्त्रादिना च सततं पूजयन्ति अधिकमिति क्रियाविशेषणम् अतिरिक्तं देवेभ्योपि जनाः श्रावकलोकाः ॥ ननु तेपि तं पूजयन्तस्तादृग्गुणा व भविष्यन्तीत्यत आह । विख्यातगुणान्वया अपि जगतीप्रतीतगांभीर्यौदार्यक्षमादिगुणमहाकुलाअपि ॥ आसतां तदितर इत्यपिशब्दार्थः ॥
कस्मादेवमित्यत आह || लग्नोग्रगच्छग्रहा इतिहेतुगर्भविशेषणम् ॥ लग्नश्चेतसि निविष्ट उग्रो दृढो गच्छप्रतिबन्धो येषां ते तथा ॥ भवतु निर्गुणो वा गुणी वायं किं नोऽनयाचिन्तया ॥ गुरुभिरयमस्माकं प्रदर्शितः तथा अस्मद्वंश्यैरप्ययङ्गुरूत्वेननैनं हास्याम इति विहितस्वस्वगच्छगोचरमनोभिनिवेशा इत्यर्थः ॥
अथ विदुराणामपि तेषां तादृक् चेतो निर्बंधे को हेतुरित्यत आह || महतोऽति प्रबलस्य मोहस्य मिथ्याभिनिवेशस्यातदिति तादृशस्यापि तथाविधाभ्यर्चनादिकं जृम्भितं लीला`यितम् ॥ तथाहि ॥ न गुरूपदर्शितत्वं निर्गुणेपि तच्छिष्येऽभ्यर्च्चनादिनिबन्धनम् ॥ यदि हिगुरुः स्वजन्यादिना निमित्तेन निर्गुणमपि शिष्यं मोहाद् गुरुतया दर्शयति नेतावता सो बहुमान -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org