________________
श्री सङ्घपट्टकः तथा जिनगृहे देवसदनेऽधिकारःसकलतत्कृत्यचिन्तननियोगो यतेच्नेऽराद्धानामिदानी तच्चिन्तानिरवधानताव्याजेन ॥ अस्य चासंस्तुतत्वं चैत्यस्वीकारद्वारनिराकरणे प्रागेवदर्शितम् ॥ __ तथा प्रदेयं वितरणीयं अशनादि अशनं भोजनमोदनादि आदिशब्दात् पानकादिग्रहः साधुषु यतिषु अत्र च सम्प्रदानेपि विषयविवक्षया सप्तमी ॥ यथातथा येनतेन प्रकारेण अशुद्धमपीत्यर्थः ॥ आरम्भिभिर्गृहस्थैरधुना केवलेन शुद्धनाशनादिना निर्वाहाभावादिति ॥ अशुद्धाशनादिदानप्रवर्त्तनस्य चासंस्तुतत्वमौद्देशिकभोजननिरसनावसरे प्रतिपादितम् ॥
तथा व्रतं सर्वविरतिरादिशब्दाद्देशविरतिसम्यक्त्वारोपणतदन्तिकगमनादिग्रहः ॥ ततश्च व्रतादिविधेः सर्वविरत्याद्यभ्युपगमस्य वारणं निषेधः सुविहितान्तिके सन्मुनिसमीपेऽगारिणां श्राद्धानामेतद्देशनापरिणतान्तःकरणानाम् ॥ नास्मत्पावें दीक्षादिकमपि ग्रहीष्यन्तीतिबुद्ध्या एतस्य चासंस्तुतत्वं तेषां सुविहिताभ्यासे देशनाकर्णनव्रतादिनिषेधेन यत्याभ्यासोत्सत्रदेशनासिलतालूनविवेकमस्तकतया तद्धेतुकानिवारितप्रसरदुर्गतिवज्रपातापादनात् ॥
अन्यदुर्गतिपातनं च यतीनां पापादपिपापीयः ॥ तदुक्तम् ॥ किमतोपि महापाप, मज्ञानातूतुकः स्वयं ॥ पातयत्यन्धकूपे यन्मूढः सहचरानपि ॥ आगमेप्युक्तम् । किं एत्तो कट्ठयरं, सम्मं अणहिगयसमयसद्भावो ॥ अन्नं कुदेशणाए कट्ठयरागंमि पाडेई । कोइत्तो पावायरो, जोउ निउत्तो पमाणठाणम्मि ॥ जाणंतो जिणवयणं पमाणमपमाणयंतोउ ॥ एवंच चिन्त्यमानमाधुनिकमुनीनां सावद्याचरितमागमविरुद्धतया न घटमियत्तीतिवृत्तार्थः ॥१२॥
इदानीं श्रुतपथावज्ञाद्वारनिरासमुपक्रमते ॥ तत्र च नानाविधाः श्रुतावज्ञा जिनाज्ञाबाह्यलिङ्गिभिरुपकल्पितास्तत्र प्रथममयोग्यस्यापिस्वगुरुशिष्यस्य गच्छग्रहान्महाजनापूजोपलम्भेन श्रुतपथावज्ञां पश्यंस्तामेवमोहमहिमप्रदर्शनद्वारेणनिराकुर्वन्नाह ॥
॥ मूलकाव्यम् ॥ निर्वाहार्थिनमुज्जितं गुणलवैज्ञातशीलान्वयम्, तादृग्वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद्विख्यातगुणान्वया अपि जना लग्नोग्रगच्छग्रहा,
देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥१३॥ टीका:-निर्वाहार्थिनं केवलं उदरभरणप्रयोजनं न तु संसारनिस्तारकांक्षिणम्, उज्जितं हीनं गुणलवैः क्षमादिलेशैरपि ॥ प्रव्रज्यायोग्यो हि पुरुषः क्षमादिगुणवान् भवति ॥ यदुक्तम् ॥ पवज्जाए जोग्गा, आरियदेसंमि जे समुप्पन्ना ॥ जाइकुले हि विसिट्ठा तह खीणप्पायकम्ममला। एवंपयइएच्चियअवगयसंसारनिग्गुण सहावा ॥ तत्तो अ तस्विरत्तापयणुकसायप्पहासा य ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org