________________
५७
विभाग-१, बृहद्वृत्तिः निरस्यन्नाह ॥
॥ मूलकाव्यम् ॥ गृही नियतगच्छभाग जिनगृहेऽधिकारोयतेः, प्रदेयमशनादि साधुषु यथा तथारंभिभिः । व्रतादिविधिवारणं सुविहितान्तिकेगारिणाम्,
गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ॥१२॥ टीका:-गतस्य पूर्वप्रस्थितस्य कस्यचित् अनु पश्चाद् गतं गमनमन्यस्य यत्तद् गतानुगतं तदेषामस्तीतिगतानुगतिकाः ॥ अस्त्यर्थेइक्प्रत्ययस्तद्धितः ॥ अयमर्थः ॥ यथा गड्डरिकाः काञ्चन दिशं प्रतीत्य काञ्चिदेकामविकां पुरो गच्छन्तीमवलोक्य तदनुमार्गेण पाश्चात्याः सर्वा अपि तामनुगच्छन्ति न मार्गस्य सुगमदुर्गमत्वादिकं मृगयन्ति ॥ ___ तथा जिनप्रवचने सुखलोलतया कञ्चिदेकं प्रवाह मार्गे गच्छन्तं वीक्ष्य तच्छीलतयान्येपि तन्याय्यान्याय्यतामविचारयन्तो ये तमनुगच्छन्ति ते संसारपथाभिनन्दित्वात्तथोच्यन्ते ॥ तैर्गतानुगतिकैर्लोकप्रवाहपतितैर्यत्याभासैः अद एतत् सकलजनप्रत्यक्षगृहिनियतगच्छभजनादिकं सावधाचरितम् ॥ - अस्य सावद्याचरितस्यानेकविधस्यापि समुदायरूपतयैकत्वविवक्षणात् अदइत्येकवचनं कथमिति क्षेपगर्भप्रकारवचनो निपात: केन कुत्सितप्रकारेण असंस्तुतं यतीनामकृत्यतया अपरिचितमप्यनुचितमितियावत् प्रस्तुतं प्रारब्धमाहतमित्यर्थः ॥ तदेव नामग्राहमाह ॥ .. गृही श्रावको नियतं गच्छान्तरपरिहारेणैकतरं गच्छमाचार्यप्रतिबद्धयतिसमुदायं भजते परिगृह्णाति स तथा ॥ गृहिनियतगच्छभाक्त्वेन हि यतीनामिदानीं सर्वभक्तपानादि निराबाधं निर्वहतीतिधिया भवतीतिक्रियापदं यथासंभवमत्राध्याहार्यम् ॥ गृहिनियतगच्छभाक्त्वं च यतीनां तद्गतसकलारम्भानुमत्यादिना पापसत्वप्रसङ्गेनासंस्तुतम् ॥ __ यदप्युत्पद्यते हीत्यादिनाऽद्यतनकालापेक्षया तत्समर्थनं तदपि न युक्तं तस्यापवादिकतयागमोक्ताधाकादिविषयत्वान्न सर्वथा निषिद्धगृहिनियतगच्छभजनविषयत्वम् ॥ किञ्च गृहिनियतगच्छभजनमन्तरेणाधुनातनयतीनां मात्सर्याद् गृहस्थान्योन्याकृष्टया कलः स्यादिति भवतां तदभ्युपगमःस चासङ्गतः ॥ . ... कालदोषान्नवनवप्रादुर्भवस्सुविहितदर्शनने गुणवत्त्वादिबुद्धया श्रावकाणां तदन्तिकगमनादिना भवतामिदानी प्रत्युत विवक्षितकलहस्याधिक्योपलम्भात् इत्यहोदन्दशूकभिया पलायमानस्य केसरीमुखे निपातः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org