________________
५६
श्री सङ्घपट्टकः तस्मिन् सिंहासनशब्दे गौणत्वं प्रसज्येत ॥ एवं च राज्ञोपनीते तदन्योपनीते वा तस्मिन्नुपविष्टा गणधरा व्याचक्षते तदनुसारेण वयमपीति किमनुपपन्नमितिचेत् ॥ एवं तहिप्रत्युपेक्षाद्यनर्हतया तदध्यासनस्य मुनीनामननुगुणत्वादितिपरिहारोस्तु ॥ __नापि द्वितीयः स्वार्थनिर्मापितसिंहासनस्याधाकर्मत्वेन यतीनां तत्रोपवेशनायोगात् ॥ यत्यर्थभक्तश्रावकादिनिर्मापितस्यापि तद्वदेव वर्जनीयत्वात् ॥
नापि तृतीयः ॥ तथाहि ॥ राजोपनीतसिंहासनसद्भावेपि कतोपिहेतोस्तत्रोपवेशनासंभवे न गणधराणां व्याख्यानाभावप्रसङ्गः ॥ तथा च तदनुसारेण भवतामपि ॥
नापि चतुर्थः ॥ तथाहि ॥ भवतु गणधराणां राजोपनीतसिंहासनोपवेशनानुपवेशाभ्यां व्याख्यानविधिः ॥ राजोपनीतसिंहासनोपवेशनसंभावनास्पदत्वात्तेषांभवतां तु राजोपनीतसिंहासनप्राप्तिसंभावनायां सत्यामेवान्यथाप्युपविष्टानां व्याख्यानकरणं सङ्गच्छेत ॥ ___ एवं च प्रदर्शितागमावष्टम्भेन सिंहासनोपवेशनं कथमपि भवतां नोपपद्यते ॥ तस्मादयमस्यागमस्याभिप्रायः यदो गणभृतां व्याख्यानानेहसि कश्चिद्भद्रकादिः पृथ्वीपतिरुपवेशनाय स्वं सिंहासनमुपनयति तदा तच्चेतोनुवृत्या तत्राधिकं ते प्रभावनादिलाभं संभावयन्तस्तदा तदासनमध्यास्यापि व्याचक्षते ॥
अन्यथा तु तेषांभगवत्समीपवर्तिनामुत्सर्गेण तत्पादपीठाध्यासनेन कदाचित्ततः पृथग्विहरतां चौपग्रहिकपट्टाधुपवेशनेन स्वनिषद्योपवेशनेन वा व्याख्याविधिः प्रतिपादितः ॥ एवमधुनापि गीतार्थसूरिभिरुत्सर्गेणौपग्रहिकपट्टस्वनिषद्याद्युपवेशनेन व्याख्यानं विधेयम् ॥
अपवादतस्तु कदाचिद्राजकुलादिगमने तत्प्रार्थनया सिंहासनाद्युपवेशनेनापि नत्विदानींतनरुढ्या यथाकथञ्चित्सिंहासनादावुपवेष्टव्यमिति एतेन यदपि वैरस्वाम्युदाहरणेन यतीनां महार्हसिंहासनाध्यासनप्रतिपादनं तदप्यपास्तम् ॥ कनककमल सिंहासनादीनां गब्दिकाद्यपेक्षयाऽल्पदोषत्वेन कथञ्चिदपवादेन सातिशयानां तथैव भव्योपकारसंभावनया व्याख्यानादौ सिद्धान्ते श्रवणात् ॥ गब्दिकादीनां च केवलसातशीलताव्यञ्जकत्वेन सिंहासनाद्यपेक्षया महादोषत्वेन च व्याख्याविधौ क्वचिदप्यननुज्ञानात् ॥ ___यदपि क्वचिदपवादेन तेषामपज्ञानं तदपिग्लानावस्थायां गुप्तवृत्त्या पुरुषविशेषमाश्रित्य न यथाकथञ्चित् ॥ तस्मात्तत्याग एव यतीनां न्यायः ॥ एतेन गब्दिकाद्यासनमुपादेयमित्यादौ प्रयोगेपि गब्दिकादेः प्रवचनप्रभावनाङ्गत्वस्योक्तन्यायेन निरस्तत्वाद्धेतुरसिद्धो वेदितव्यः ॥ स्वपक्षसाधनं तु यतीनां गब्दिकाद्यासनमनुपादेयम् असंयमहेतुत्वात् आधार्मिकभोजनवदितिवृत्तार्थः ॥११॥
साम्प्रतं सनामोच्चारसावद्याचरिताभिधानपुरस्सरतद्दोषप्रदर्शनेन सावद्याचरितादरद्वार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org