________________
५५
विभाग-१, बृहद्वृत्तिः
तथा च पठ्यते ॥ गुणैरुत्तुंगतां याति, न चोच्चासनसंस्थितः । प्रासादशिखरस्थोपि काकः किं गरुडायते ॥
अथ द्वितीयः ॥ तर्हि तत्रैव प्रभावनाकल्पलतामूलतया प्रयत्यतां किंबृहदासनाद्याटोपेन मुग्धजनबन्धीकरणेन ॥ यदुच्यते ॥ गुणेषु यत्नः क्रियतां किमाटयैपैः प्रयोजनम् ॥ विक्रीयन्ते न घण्टाभि, र्गावः क्षीरविवर्जिताः ॥
आगमे च शिष्योपध्यादिभिरेव सूरिनिषद्याविधानाभिधानात् ॥ उपदेशमालायामपि ॥ नवि धम्मस्स भडक्केत्यत्र भडक्का बृहदासनाद्याटोप इति व्याख्यानेन वस्तुतः सिंहासनाद्यासननिषेधप्रतिपादनात् ॥ किञ्चाप्रत्युपेक्षत्वेनाकल्पनीयतयागमनिषिद्धदूष्यपञ्चकान्तर्वर्त्तित्वेन गब्दिकाद्यासनस्य प्रवचनप्रभावनानङ्गत्वात् ॥
यदाह || अप्पडिलहियदूसे तूली उवहाणगं चनायद्या ॥ गन्दुवहाणालिङ्गिणि मसूरए चेव पोत्तमए ॥ पल्हविकोय विवावारनवय अतहया दाढगालीय ॥ दुप्पडिलेहियदूसे एयं बीयं भवे पणगम् ॥
अत्र हि तूल्युपधानगब्दिकाप्रावरणपुष्पपटादयो ऽप्रत्युपेक्ष्यतया यतीनामसंयमहेतुत्वेनानुपादेयतयोपन्यस्ताः ॥ भवन्तस्तु तुल्युपधानगब्दिकादीन्येव भगवत्सिद्धान्तमात्सर्येणै व हठादविरतमुपभुञ्जानाः प्रवचनमालिन्यमानयन्त उपलभ्यन्त इत्यहो महामोहमदिरा मदयति विदुषोपि ॥
यदपि राओवणीय इत्यागमबलने व्याख्यानादौ सिंहासनोपवेशनोपपादनं तदपि न सचेतसां चेतश्चमत्कारकरम् ॥ तथाहि ॥ राजोपनीतसिंहासनोपविष्टा गणधरा व्याख्यायन्तीति . किंराजोपनीत एव सिंहासनउपविष्टा अहो राजोपनीतेपि उपविष्टा इत्यपि किमुउपविष्टा एव उतोपविष्टा अपीतिचत्वारः पक्षाः कषाया इव भवदभिमतव्याघातदक्षा उत्तिष्ठन्ते ॥
।। तत्र यद्याद्यः पक्षस्तदागणधरन्यायानुसारेण भवतामपि राजोपनीतसिंहासनस्थानामेव व्याख्याप्रसङ्गः ॥ अथ द्वितीयस्तदा राजोपनीते तदन्योपनीतेपीत्ययमर्थ स्तत्रापि विकल्पे किं तदन्योपनीते राजव्यतिरिक्तजनोपनीतम् अहो स्वोपनीतम् ॥
न तावदाद्यः ॥ राजव्यतिरिक्तलोकानां सिंहासनाभावेनतदुपनीतत्वानुपपत्तेः ॥ नृपासनं विनाऽन्यस्याभिधानकोशादिषु सिंहासनव्यपदेशासिद्धैः ॥ नृपासनं यत्तद्भद्रासनं सिंहासनं च तदितिवचनात् ॥ अन्यत्र तु तद्व्यपदेशस्य भाक्तत्वात् ॥ ननु भवत्वग्निर्माणवकइत्यादौ सर्वथातदाकारधारणतदर्थक्रियाकारित्वादिविरहेण कतिचित्तद्गुणयोगादग्निशब्दस्य माणव - केभाक्तत्वमिह तु मात्रयापिततद्विरहाभावेन सकलतद्गुणोपपत्तेः कथं भाक्तत्वं ॥ अभिधानकोशपाठोप्युपलक्षणतया समाधास्यते अन्यथा भगवत्प्रातिहार्यान्तःपातिन्यपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org