SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५४ श्री सङ्घपट्टकः साम्प्रतमसंयमादिदोषप्रदर्शनेनाप्रेक्षिताद्यासनद्वारं निराकर्तुमाह ॥ ॥मूल काव्यम् ॥ भवति नियतमत्रासंयमःस्याद्विभूषा, नृपतिककुदमेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चै, रिति न खलु मुमुक्षोः सङ्गतं गब्दिकादि ॥११॥ टीका:-भवति जायते नियतं सर्वदा अत्र गब्दिकाद्यासनेऽसंयमो जीवरक्षाऽभावः ॥ गब्दिकादेनित्यस्यूतत्वादिना प्रत्युपेक्षणाद्यभावे विवरादिना तदन्तःप्रविष्टानां तदन्तरेचोत्पन्नानां वा त्रसादीनां तत्रोपवेशनेन विनाशसंभवात् ॥ भिक्षोरितिवृत्तमध्यस्थपदं सर्वत्र सम्बध्यते स्यात् भवेत् विभूषा शोभा तत्रोपविष्टस्य जगतोप्युपरिवर्त्यहमितिविभूषाकार्यभिमानप्रवृत्तेविभूषा च यतीनामवश्यं वर्जनीया ॥ यदुक्तम् ॥ विभूसावत्तियं भिक्खू, कम्मं बन्धइ चिक्कणं ॥ संसारसागरे घोरे, जेणं पडइ दुरुत्तरे ॥ इति ॥ ____ नृपते राज्ञःककुदं चिह्न राजादीनामेव प्रायेण महद्धिकानां तत्रोपवेशदर्शनात् ॥ लोकहासो जनतोत्प्रासनं च शब्दो दोषसमुच्चये भिक्षोर्यतेः ॥ अहो भिक्षोपजीविनो मुण्डिता अप्येवंविधासनेषूपविशतीत्यादिसेय॑जनवचनश्रवणात् ॥ स्फुटतरो लोकप्रकटः इह गब्दिकादौ सङ्गः परिग्रहो महाधनत्वेन मुच्छ हेतुत्वात् ॥ सातशीलत्वं सुखलालसत्वम् ॥ तदन्तरेण हंस रुतादिपूर्णेषु स्पर्शेषु तथाविधासनेषु यत्यनुचिततया सिद्धान्तनिषिद्धेषूपवेशाऽसंभवात् ॥ उच्चैरतिशयेन इति हेतौ एभ्यो हेतुभ्यो न खलु नैव खलुरवधारणे मुमुक्षोर्मोक्षार्थिनो यते: सङ्गतं युक्तियुक्तं गब्दिकाद्यासनम् उपभोगतयेति शेषः ॥ लोकप्रसिद्धो रूतादिभृतआसनविशेषो गब्दिका ॥ आदिशब्दान्मसूरकसिंहासनादिपरिग्रहः ॥ एतेन यदपि - नाणाहिओवरतरमित्याद्यागमबलेन प्रवचनप्रभावनाङ्गतया यतीनां गब्दिकासिंहासनाद्यासनोपवेशनसमर्थनं तदपि सुखशीलताविलसितम् । ___ तथाहि ॥ किं यतेर्महार्हगब्दिकाद्यासनोपवेशनमेव प्रवचनप्रसिद्धसम्यग्ज्ञानादित्रयाभिव्यञ्जनम् ? न तावदाद्यः ॥ इदानींतनरूढ्या निर्गुणस्य कस्यचिदनागमज्ञस्याचार्यादेः सदसि व्यचिख्यासया महार्हासनोपवेशनेपि प्रवचनप्रभावनाया अनुपपत्तेः प्रत्युत तादृशस्तस्य तथाभूतासनमध्यासीनस्य केनापि तर्ककर्कशवाग्भल्लिशल्यितारातिकोविदेन प्रतिवादिना क्षिप्तस्य सहृदय हृदयङ्गमप्रतिवचनाभावेन महाप्रवचनलाघवापादनात् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy