________________
विभाग-१, बृहद्वृत्तिः
निर्वाहः ॥
अणिच्छति ॥ अथ देवकुलिकाः सातलम्पटतयैतदपि कर्तुं नेच्छन्ति तदा सुविहिताः स्वयमेव तन्तुजालादीनि फेर्डिति अपसारयन्ति ॥ उपहासभयाद् गृहिभिरदृश्यमानाः कथमेवं सुविहितानां स्वयं चैत्यसमारचनप्रवृत्तिरिति यदि कश्चिद् ब्रूयात् तत्रैत्समर्थनायेदंगाथा युगमुष्ठिते ॥
५३
अन्नाभावे जयणाइथग्गना सो हविज्ज मा तण ॥ पुव्व कयायगणाइसु इसिंगुण संभवेइहरा ॥ चेइयकुलगणसङ्खे आयरियाणं च पवयणसुएय ॥ सव्वेसुवि तेह कयं, तवसंजममुज्जुमंतेण अस्यार्थःअन्याभावे श्रावकाद्यभावे यतस्तत्र श्राद्धा न सन्ति येन त एव समारचनं कुर्वीरन् अतः स्वयं यतनया कुर्व्वन्ति ॥ माभूच्चैत्यसमारचनम् ॥ का वो हानिरितिचेत् अत आह ॥ मार्गनाशो जैनमार्गोच्छेदो मा भूत्तत्र तेन हेतुना पूर्वकृतायतनादिषु चिरन्तनजिनगृहेषु ईषद्गुणसंभवे सति मनाग्लोकस्य जिनमार्गप्रवृत्तिसंभावनायाम् ॥
अयमाशयः ॥ तत्र हि देशें तदेवैकं जिनभवनं ततश्च श्रावकाभावेन देवकुलिकानां च सुखरसिकत्वेन चैत्यचिन्ताद्यभावे तत्र देशे जिनगृहाभावान्मार्गोच्छेदो माभूदिति ॥ तत्रत्यलोकस्य माध्यस्थ्येन गुणसंभावनया सुविहिता अपि तत्र जिनगृहे काञ्चिच्चिन्ता यतनया विद्धति ॥
॥ इहरति ॥ इतरथा एवंविधगुणाभावे चैत्यकुलगणसङ्घाचार्यप्रवचनश्रुतेषु सर्वेष्वपि वैयावृत्यस्थानेषु तेषु तेन सुविहितेन कृतं वैयावृत्यं तपः संयमोद्यमं कुर्वतेति ॥ एवं रूपालबंनाभावे सुविहितस्य न चैत्यचिन्तया काचित् स्वार्थसिद्धिः संयमोद्योगस्यैव तस्य सर्वोत्तमत्वादित्यर्थः ॥
एवञ्चास्यागमस्य तात्पर्ये नास्माच्चैत्यस्वीकारसिद्धिः ॥ मार्गोच्छेदभयेन हि श्रावकाभावे तच्चै त्यसमारचनं प्रति सुविहितानां देवकुलिकप्रेरणं न तु यतीनां कृत्यमेतदित्यभिसंधान ॥ अतः कथमयमागमश्चैत्यस्वीकारार्थतया यतीनां पर्यवस्येदिति ॥
एवं च त्वमेव परिभावय मार्गानुसारिण्या मनीषया यन्मुनेर्देवाधिकारं चिन्तयतः-कथं माठपत्यमतिकुत्सितं न प्रसज्यत इति ॥ लौकिका अप्याहुः || यदीच्छेन्नरकं गन्तुम्, सपुत्रपशुबान्धवः । देवेष्वधिकृतिं कुर्याद् गोषु च ब्राह्मणेषु च ॥ तथा ॥ नरकाय मतिस्ते चेत्, पौरोहित्यं समाचर । वर्षं यावत्किमन्येन माठपत्यं दिनत्रयमिति ॥
इदानीं निगमयति ॥ इतियस्मादर्थे यस्मात् एवमित्युक्तक्रमेण व्रतवैरिणी चारित्रप्रतिपंथिनी इति हेत्वर्थी भिन्नक्रमः स चाग्रे योक्ष्यति ॥ ममतां अर्थादिषु स्वीकारबुद्धिः इति तस्माद्धेतोर्न युक्ता नोपपन्ना मुक्त्यर्थिनां निर्वाणाभिलाषिणां मुनीनामिति वृत्तार्थः ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org