________________
श्री सङ्घपट्टकः,
५२
न सिद्धान्तार्थापरिज्ञानात् ॥ आगमेद्युत्सर्गतस्तावदारम्भादिदोषेण सत्तायां क्षेत्रग्रामादीनां निषेध एव प्रत्यादि ॥ तथाच कुतस्त्या तच्चिन्ता यतेः ॥ अथ कथञ्चित् केनापि भद्रकादिना राज्ञा चैत्यस्य ग्रामादयो वितीर्णाः सन्ति ते च कदाचिद्बलवता केनापि हठेनापहर्तुमारब्धास्तदा सङ्घलाघवरिरक्षिषया साधु श्रावकाणां तच्चिन्ताऽनुज्ञाता यदि तु लोभादिना यतिः स्वयं देशनाद्वारेण वा तान् मार्गयेत्तच्चिन्तां वा विदध्यात्तदा तस्यचारित्राशुद्धिरेव ॥
तदुक्तम् ॥ भन्नइ इत्थ विभासा, जो एयाइं सयं विमग्गिज्जा | नहु होइ तस्स सुद्धी, अह कोवि हरिज्जा याइं ॥ सव्वच्छामेण तहिं, सङ्घणं होइ लग्गियव्वंतुं ॥ सचरित्तचरित्तीणं एयं सव्वेसि कज्जंति ॥ अतः कथं सस्पृहतया चैत्यारम्भं कुर्वतामधुना तनमुनीनां न दोष इति ॥ यदि चम्प्र संपूर्णभावस्तवस्याशक्यत्वेन तदपेक्षया चैत्यकृत्यचिन्तनमपि महाफल - मभ्युपेयते तदा तेजकरजोहरणादिपरिहारेण गृहिनेपथ्यमभ्युपगम्य जिनपूजनमाद्रियताम् ॥
यदुक्तम् ॥ जइ न तरसि धारेओ, मूलगुणभरं सउत्तरगुणं च ॥ मुतूण तोतिभूमी सुसावगत्तं वरतरागं॥ अरहंतचेइआणं, सुसाहुपूयारओ दढायारो ॥ सुस्सावगो वरतरं, न साहुवेसेण अधम्मो ॥ रजोहरणादिलिङ्गं बिभ्रतां तु चैत्योद्देशेनापि यतीनामारम्भविधानं महते पापाय लोकशोकाय च ॥ यदाह || छज्जीवनिकायदयाविवज्जिउ नेव दिक्खिओ न गिही ॥ जइधम्माओ चुक्को, चुक्कइ गिहिदाणधम्माओ ॥
तथा ॥ सम्प्रति प्रतिवेषेण, लोकमोषक्षमेष्वहो ॥ सिताम्बरेषु जातेषु, चौराः किंनिर्मिता मुधेति ॥ एतेनोक्तन्यायेन सम्प्रति गृहमेधिनामित्यादिना यतीनां चैत्यस्वीकारसमर्थनं तदपि श्रद्धासमृद्धानां केषाञ्च्छ्रिद्धानामद्यापि श्रुतोक्तविधिना चैत्यचिन्ताकरणदर्शनेन निरस्तम् ॥
यद्यपि चैत्यस्वीकारार्थतया, सीलेह मङ्खफलए इत्यागमोपदर्शनं तदप्यसङ्गतम् ॥ अस्यान्यार्थत्वात् ॥ तथाहि ॥ केचित् सुविहिता विहारक्रमेणांतरा कञ्चिदुच्छन्न श्रावकं मध्यस्थभूरिलोकमन्तःस्थितचैत्यचिन्तानिरवधानदेवकुलिकजीर्णशीर्णप्रायैकजिनसदनाधिष्टितं ग्राममेकं प्राप्तास्तत्र च तेपवादेन देवकुलिकानां शिक्षाद्यर्थं देवकुलं गता एतत्समारचनसंभवे कालेन गच्छता तत्रत्यलोकस्य भद्रकतया जैनमार्गाभ्युपगमगुणं सुविहितसंपातेन संभावयं देवकुलिकान्प्रत्याहुः सीलेहेत्यादि ॥
भो देवकुलिका एतानि मङ्खफलकानीव मङ्खफलकानि यथा मङ्खस्य फलकोज्वलतया ग्रासनिर्वाह एवं भवतामपि चैत्यनिर्मलतया तत्सदनसज्जतया च निर्वाहः ॥ अतो निर्वाहहेतुचैत्यानि शीलयत समारचयत ॥ इतरे सुविहिताः चोयन्ति प्रेरयन्ति तन्तुमाइसु लूतातत्वप्रसारणादिषु ॥ अथ ते लिङ्गिनः सवृत्तयः चैत्यचिन्ता विनापि प्राक्सञ्चितद्रविणनिचयेत विद्यमाननिर्वाहा स्तदा तान् अभियोजयन्ति || अम्बार्डिति निष्ठुरवाचा शिक्षयन्ति ॥ यथा भोज्ञाकिमित्येतानि चैत्यानि न समारचयथ यत एतानि विना पश्चादपि न भवति भवतां
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org