________________
विभाग-१, बृहद्वृत्तिः स्थानकभावस्तवनिष्ठत्वात्तेषाम् ॥ तदशक्तस्य च द्रव्यस्तवेऽधिकाराभिधानात् ॥
भावच्चणमुग्रविहारिया उ दव्वच्चणं तु जिणपूआ॥ भावच्चणाउ भट्ठो, हविज्ज दव्वव्वणुजुत्तो ।। तच्चिन्तने तु यतीनां भावस्तवाभावप्रसङ्गात् ॥ द्रव्यस्तवस्य च षट्-जीवनिकायविरोधित्वेन ततो न्यूनतरत्वात् ॥ तत्संयमस्यैव च पूर्णस्य भगवतामभिमतत्वात् ॥
यदाह ॥ दव्वत्थओय भावत्थओय दव्वत्थओ बहुगुणुत्ति बुद्धिसिया ॥ अनिउणजणवयणमिणं, च्छज्जीवहियं जिणा बिंति ॥ च्छज्जीवकाय संजमदव्वत्थ ए सोविरुज्उ ए कसिणो, तो कसिणसंजमवि आ पुप्फाइयं न इच्छंति ॥
अथ चैत्यमुद्दिश्यारम्भादयोपि यतेन विरुध्यन्ते ॥ तथाहि ॥ भगवान् श्रीवैरस्वामी त्रिदशविनिम्मितमणिमयविमानस्योपरिष्टात्सातकौम्भमुज्जृम्भमम्भोजमध्यासीनो जृम्भकवृन्दारकवृन्देन पुरतो विधीयमानाऽविगानगानहृद्यनाट्यातोद्यनिनादपूरितसमस्तनभस्तलो हिमगिरिशिखरवर्तिश्रीदेवतायाः सकाशान्तिरर्गलसमुच्छलदतुच्छावन्ध्यसौगन्थ्यसुरभितककुप्कान्ताननानि विशप्रसूनानि हुताशनगृहाच्च प्रसूनानि समादाय पुर्याः तथागतायतनानि विहाय विहायसा मन्दानिलचलश्वेतकेतनं जिननिकेतनं पर्युषणमहसि समाजगामेति श्रूयते ॥ यथोक्तम् ॥ चेइयपूया किं वइरसामिणा मुणिअपुव्वसारेण ॥ न कयापुरीइ तइया मुक्खगंसावि साहूणं ।। अतस्तच्चरितमनुवर्तमानाः सम्प्रति कथं वयमुपालम्भमही इति चेन्न ॥
भगवच्चरितस्य भवतामालम्बनीकर्तुमनुचितत्वात् नहि स्तम्बेरमस्पर्द्धयाऽस्मादादीनामिक्षुभक्षणं युज्यते ॥ तेन हि भगवता तथाविघसङ्घप्रार्थनया तथागतमनोरथपथमथनाय स्वतीर्थप्रोत्सर्पणाय च स्वपाणिग्रहणं विना पूर्वोच्चितानि धूपेनाऽचित्तीकृतानि च कुसुमानि सकृदानीतानि भवतां च मालाकाराणामिव सततं स्वयमुच्चयनगुम्फनपाणिग्रहणादिना प्रकृतप्रवृत्तिरुपलभ्यते ॥ अतो भगवच्चरितमालम्ब्य देवनमस्याच्छद्मना स्वोपभोगायैव केवलमभियुञ्जानाः कथङ्कारं भवन्तो न वीडन्ते ॥
यदुक्तम् ॥ चेइयकुलगणसङ्के, अन्नं वा किञ्चि काउनिस्साए ॥ अहवावि अज्जवइरन्तो सेवन्ती अकरणिज्जं । ओहावणं परेसिं सतित्थओब्भावणं च वच्छल्लं, न गणिति गणेमाणा पुव्वुच्चियपुप्फमहिमं च ॥ गणेमाणत्ति आलम्बणानिगणयंतः इत्यहो अविवेकसेकः सातिरेक:प्रव्रजितानामपि यदेवमंकुरयति महारम्भभूमीरुहान् ॥ चइउण घरावासं आरम्भ परिग्गहेसु वट्टन्ती ॥ जं सन्नाभेएणं एयं अविवेयसामत्थं ॥ सन्नाभेएणंति देवाद्यर्थ मेतदितिनामभेदेन ॥ मंसनिवित्तिकाओ सेवइ दंतिक्खयन्ति धणिभेया ॥ इय चइऊणरम्भं परववएसा कुणइ बालो ॥ अथ, चोएइ चेइयाणं खित्तहिरन्नाइ गामगोणाइ ॥ लग्गंतस्सउ मुणिणो तिगरण सुद्धी कहनु भवे ॥ इत्यादिना चैत्यक्षेत्रादिचिन्तां विदधतो यतेस्त्रिकरण-शुद्धिं दूषयत:पूर्वपक्षिणो वचनादवसीयते यतेश्चैत्योद्देशेनारम्भो न दुष्यतीतिचेत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org