________________
विभाग-१, बृहद्वृत्तिः
४९
अतः केवलौदरिकत्वापेक्ष्यातीवोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति ॥ योपि, जा जस्स ठिइ इत्याद्यागमोपन्यासः सोपि न भवदभिमतप्रसाधकः ॥ अन्यार्थत्वात् ॥ नह गृहिपरिग्रहसाधकोयं प्रकृतागमः ॥ किन्तु गणधरादीनां शिष्यप्रतिशिष्यपरिग्रहविषयः ॥
तथाहि ॥ या काचिद्यस्य गणधरशिष्यप्रतिशिष्यादेः स्थितिः प्रतिक्रमणवंदनादौ न्यूनाधिकक्षमाश्रमणादानादिलक्षणा समाचारी या च यस्य संततिर्गुरुपारंपर्येणालोचनादिदान विषयः संप्रदायः या च पूर्वपुरुषकृता गणधरादिप्रवर्तिता मर्यादा गच्छव्यवस्था तामनतिक्रामन्ननन्तसंसारिको न भवतीति ॥
अत्र हि गणधरशिष्यादीनां स्वस्वगुरुप्रदर्शितस्थित्याद्यतिक्रमेऽनन्तसंसारितापत्त्या प्रतिनियतगणधरपरिग्रहविषयत्वमवसीयते ॥ श्रावकाणां तु सर्वधार्मिकगच्छेष्वविशेषेण भक्तपानादिभक्त्यभिधानात् ॥ यदुक्तम् ॥ णंतगघयगुलगोरसफासुअपडिलाहणंसमणसङ्घे ॥ असइगणवाइगाणंति ॥ तथा सड्ढेणं सइविहवे साहूणं वत्थमाइ दायव्वं ॥ गुणवंताण विसेसोत्ति ॥
अतो नेदानींतनरुढ्याप्रतिनियतगच्छपरिग्रहविषयत्वं तेषां सिध्यति ॥ यत्त्वशक्तस्य ॥ तदसइसव्वस्स गच्छस्स ॥ तथा दिसाइतच्छविन जे सत्थी इत्युक्तगाथयोश्चतुर्थपादाभ्यां धर्मगुरुषु तद्गच्छे वा विशेषेण दानभक्तिप्रतिपादनं तत्तेषां दुःप्रतिकारतया न तु तत्स्वीकारविषयतयेति ॥
यदपि सम्यक्त्वदीक्षावसरे श्राद्धानां गुरोरात्मसर्वस्वसमर्पणेन परिग्रहसमर्थनं तदपि न शोभनम् ॥ तथाहि ॥ कोयं परिग्रहः ॥ किमुपास्योपासकसम्बन्धः, आहो प्रतिनियता भाव्यव्यवस्थाविषयतया नियमनम् ॥ तत्राद्यपक्षे सिद्धसाधनम् ॥ एवंविधपरिग्रहविषयतायाः साधुश्राद्धानामस्माकमप्यनुमतत्वात् ॥
अथ द्वितीयः ॥ तन्न || आभाव्यव्यवस्थायाः प्रविव्रजिषूत्प्रव्रजितगृहिविषयतयैवागमे दर्शनात् ॥ तथाहि ॥ कल्पव्यवहारोक्ता दिग्व्यवस्थैवमुपलभ्यते ॥ यः प्रविव्रजिषुः सामायिकादिपाठप्रवृत्तः स त्रीणि वर्षाणि यावत् पूर्वाचार्यस्य सम्यक्तदातुरेव भवति ॥
यदुक्तम् ॥ सामाइयाइया खलु, धम्मायरियस्स तिन्नि जा वासा ॥ नियमेण होइ सेहो उवक्मओ तदुवरिं भयणा ॥ यस्तु निह्नवादिर्भूत्वा पुनः प्रविवजिषति तस्य यदृच्छयादिक ॥ अत्यक्तसम्यक्त्वस्तूत्प्रवृज्य यः प्रव्रजति स त्रीणि वर्षाणि यावत् पूर्वाचार्यस्यैव ॥ यदाह ॥ परलिङ्गि निज्जाएवा, सम्मद्दंसण जढे उ उवसंते ॥ तद्दिवसमेव इच्छा सम्मत्तजुए समा तिन्नि ॥
उत्प्रव्रजितस्तु द्विधा सारुपी गृहस्थश्च ॥ तत्र सा रूपी रजोहरणवर्जसाधुवेषधारी ॥ स च यावज्जीवं पूर्वाचार्यस्यैव ॥ तन्मुण्डीकृतान्यपि ॥ यानि पुनस्तेन न मुण्डीकृतानि केवलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org