________________
४८
श्री सङ्घपट्टकः न कुणइ, सरका वज्जेइ किमिह वुच्चंति ॥ वड्डेइय तद्दव्वं, विसुद्धभावो सयाकालं ॥
एवं च श्राद्धानां यदापुंभमात्रस्याप्येवं निषेधस्तदा का वार्ता उद्दिधीर्षया यतिवितीर्णसाक्षाद्देवद्रव्यग्रहणस्येति ॥ .
तदुक्तम् ॥ भक्खेइ जो उविक्खेइ, जिणदव्वं तुसावओ ॥ पन्नाहीणो भवे सोउ, लिप्पई पावकम्मुणा ॥ आयाणं उवभुंजइ, पडिवन्नधणं न देइ देवस्स ॥ नस्संतं समुविक्खइ, सो विहु परिभमइ संसारे॥
देवद्रव्यरक्षणवर्धनादावेव श्राद्धानामधिकारात्तस्यैव च तेषां परमकोटिप्राप्तिफलाधायकत्वेन भणनात् ॥ यदुक्तम् ॥ जिणपवयणवुड्डिकरं, पभावगं नाणदंसणगुणाणं ॥ रक्खंतो जिणदव्वं परित्तसंसारिओ होइ॥ जिणपवयणवुड्किरं पभावगं नाणादसणगुणाणं, वढेतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥ जिणपवयणवुड्डिकरंति॥
जीर्णजिनभवनादेरुद्धारविधिना तत्स्थबिम्बाद्यवलोकनविहारक्रमागतसुविहितयतिधर्मोपदेशद्वारेण भूयसां भव्यसत्त्वानां बोधिविधीयकृत्वाद्भवति जिनद्रव्यं प्रवचनवृद्धिकरमिति संकासाउदाहरणेनचास्यार्थस्य प्रतीतत्वात् ॥ श्राद्धोद्धारे च यतीनां सर्वथाऽनधिकारित्वाच्च ॥ तस्माच्छ्राद्धैरेव स्वद्रव्येण साधारणसमुद्घद्रव्येण वा वात्सल्यकरणाच्छ्राद्धोद्धारेण तीर्थानुच्छित्तिः सेत्स्यति ॥ किं यतीनां तदुद्धाराय विहितेन देवद्रव्यस्वीकारेणेति ॥
तथा सर्वारम्भिणां सकलसावद्यारम्भप्रवृतानां गृहिणां परीग्रहो मू हेतुः मामकत्वबुद्धिः स तथा तम् ॥ तुशब्दोऽर्थस्वीकारादस्य भेदप्रदर्शनार्थः अतिशयेन महासावा महापापम् आचक्षते वदन्ति जिना इति पूर्वस्मादनुकृष्यते ॥ अत्र चाहुरिति क्रियानुवृत्त्यैव साध्यसिद्धावाचक्षत इति पुनरभिधानं द्वारांतरनिराकरणमेतदिति ज्ञापनार्थम् ॥
॥ अयमर्थः ॥ गृहिपरिग्रहे हि तत् कृतकारितादिसकलमहारम्भमहापरिग्रहजनितपापानुमत्यादिना यतीनामपि तत्कृतादिनाखिलपापसत्त्वप्रसङ्गोऽतः कथं तस्य नातिमहासावद्यता परकृतमहापापस्यात्मन्यऽध्यारोपणमेव चातिशब्दार्थः ॥
॥ तदुक्तम् ॥ आरम्भनिर्भरगृहस्थपरिग्रहेण, तत्पातकं सकलमात्मनि सन्दधानाः, सत्यात् . पतन्त्यहह तस्करमोषदोषमाडव्यनिग्रहनयं सितभिक्षुपाशा इति ॥
अत एव गृहिपरिग्रहो यतीनां प्रायश्चितापत्त्या श्रुते निवारितः ॥ ओसन्नगिहिसुलहुगेत्यादि ॥ एतेन गृहिस्वीकारं प्रति यत्पणरस्य पूर्वं हि कालस्य सौस्थ्यादित्यादिना युक्त्यभिधानं तदपि निरस्तम् ॥ कालदोषात् कुतीर्थिकादिभूयस्त्वेपि गृहिस्वीकारमन्तरेणापि भक्तभद्रकादिश्राद्धेभ्यो यतीनामधुनापि भिक्षादिप्राप्तेरुपपत्तेः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org