________________
४७
विभाग-१, बृहद्वृत्तिः ज्जनितानेकविग्रहः कथञ्चन मुमुक्षुणां न युक्तो द्रव्यसङ्ग्रहः ॥ ___ उपदेशमालायामप्युक्तम् ॥ दोससयमूलजालं पुवरिसिविवज्जियं जईवंतं ॥ अत्थं वहसि अणत्थं, कीस अणत्थंतवं चरसि ।। वहबन्धणमारणभेयणाओ काओ परिग्गहे नत्थि, तं जइ परिग्गहुच्चिय, जइधम्मो तो नणु पवंचो ।
अत्र च विशेषणे तात्पर्यम् ॥ धनस्वीकारस्य सिद्धस्य प्रवज्याप्रतिपन्थित्वेन यतीनां निषेधे विश्रामात् ॥ एतेन द्रव्यस्वीकारस्यागमे निवारित्वेपीत्यादिना यतिचिन्ताद्यविधानादित्यन्तेन यद्रव्यस्वीकारसमर्थनं साम्प्रतिकयतीनां प्रतिपादितं परेण तदप्यपास्तं मन्तव्यम् ॥ केषांचिगृहिणां निर्धनत्वादिना सांप्रतं यतिचिन्ताद्यविधानेप्यन्येषां तथोपलम्भात् ॥
तथाहि दृश्यन्त एवाद्यापि केचिदुदाराशया ग्लानाद्यवस्थायां निरवग्रहाभिग्रहपुरस्सरं पथ्यौषधादिदानेन यतीनां संयमशरीरोपष्टंभं विदधाना:पात्रस्य द्रविणविद्रावकाः श्रावकाः ॥ तत्तावतैव पर्याप्तं, किं सिद्धान्तनिषिद्धेनानर्थसार्थमूलेन वित्तपरिग्रहेण ॥ ___परमेवं कालाद्यौचित्येन पथ्यादिदातृसद्भावेपि यदिदानीतना यत्याभासा बालकाध्यापनमंत्रादिप्रयोगवैद्यकादिभिः पथ्यपुस्तकलेखनादिव्यपदेशेन गृहिभ्योऽयमयमिकहा स्वापतेयनिचयं सञ्चिन्वाना उपलभ्यन्ते तयनं विषयतृषाकर्षितान्तःकरणतया तेषामेवं द्रव्यसंग्रहप्रवृत्तिन्तु ग्लानादिहेतुना ॥
यदुक्तम् ॥ एकाकित्वाच्छिशुपठनतो मन्त्रतन्त्रैश्चकेचि, माठस्वाम्यान्मधुरवचनात् सर्वतः केपि नष्टाः ॥ रागालोभाद्धनविढपनध्यानमापूरयन्तो, लब्ध्वालिङ्गं विदधतितरां नैष्ठिकी नैव वृत्तिम् ॥ ____ न च शिशुपाठनाद्यपि यतिना विधातव्यमिति वक्तुमुचितं गृहिणां मातृकादिपाठनादिविधानस्य मुनीनां चारित्रभङ्गहेतुत्वेनागमे निवारणात् यदाह ॥ जोइसनिमित्त अक्खर कोउअआउसभूइकम्मेहिं ॥ करणाणुअणेहियसाहुस्स तवक्खओ होइ ॥
यद्यपि सांप्रतं चैत्यद्रव्यमपि यतिभिरित्यादिना दुर्बलश्राद्धोद्दिधीर्षया यतीनां चैत्यद्रव्यस्वीकारतद्वद्धनमुपपादितं तदप्यसङ्गतम् ॥ यदाहि द्रव्यमात्रस्वीकारस्याप्युक्तक्रमेण यतीनामागमे निषेधः प्रत्यपादि तदा कैव कथा चैत्यद्रव्यस्वीकारस्य ॥ तथा द्रव्येण श्राद्धोद्धारस्याप्यागमे क्वचिदप्यप्रतिपादनात् ॥ देवद्रव्यपुंभमात्रग्रहणस्यापि श्राद्धानां सिद्धान्ते प्रतिषेधाच्च ॥
यदुक्तम् ॥ वज्जेइ चेइयालयदव्वंअंगेवरिंमिउट्ठारं ॥ साहारणं च एयं, न जाउ से पुंभयं लेइ ॥ • तद्दव्वरिणियजायण विठीए सगडवइलमणुयाणं ॥ अहवाविखरा लएही करेइ तद्दव्वकइयाणं ॥ एयं पुंभ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org