________________
४६
स्थितम् ॥
तस्मादुक्तन्यायेन यतीनां परगृहवासस्य तदानीमिवेदानीमपि दोषाभावात्समीचीनं यतीनां परगृहवासोनुपपन्नः अनेकदोषदुष्टत्वात् प्राणातिपातवदिति साधनप्रयोगोपि अपरोदित उक्तानेकदोषनिरासासिद्धत्वादसिद्धः प्रतिपादितो भवति, स्वपक्षसाधनं तु यतीनां परगृहवासो विधेयः निःसङ्गताभिव्यञ्जकत्वात् शुद्धोञ्छ्ग्रहणवदिति ॥ तदेवं यतीनां चैत्यपरित्यागेनपरगृहवसतिरेव श्रेयसी नेतरेति वृत्तद्वयार्थः ॥ ९ ॥
श्री सङ्घपट्टकः
सांप्रतं यथाक्रमं दीक्षाप्रातिकुल्यसावद्यत्वमाठपत्यापत्तिदोषैरर्थादित्रयगोचरस्वीकारद्वारत्रयमेकवृत्तेन प्रत्यादिदिक्षुराह ॥
॥ मूलकाव्यम् ॥ प्रव्रज्याप्रतिपथिनं ननु धनस्वीकारमाहुर्जिना: सर्वारम्भपरिग्रहं त्वतिमहासावद्यमाचक्षते । चैत्यस्वीकरणेतु गर्हिततमं स्यान्माठपत्यं यते, रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् ॥१०॥
टीका :- नन्वित्यऽक्षमायां न क्षम्यते एतत्, यदुत साधूनां धनस्वीकार इति यतो धनस्वीकारं द्रविणसंग्रहमाहुर्बुवन्ति जिना भगवन्तः ॥ अत्र च जिनानामिदानीमतीतत्वेनोपदेशासंभवादाहु रित्यतीतविभक्तिप्राप्तावपि सद्वर्तमानप्रतिपादनं तत्तेषां स्वागमै ग्रंथसंग्रहविपाकप्रतिपादकैः स्फुरद्रुपतयाऽद्ययावदनुवृत्त्यभेदाध्यवसायेन वर्त्तमानतयावभासात्तदुपदेशप्रदर्शनेन विनेयानां धनस्वीकारं प्रत्यतिपरिजिहीर्षा यथा स्यादिति ज्ञापनार्थम् ॥ एव मुतरपदेपि योज्यम् ॥
प्रवज्यायाः सर्वसङ्गत्यागरूपाया दीक्षायाः प्रतिपन्थिनं विरोधिनं विरोधश्चात्र वध्यघातकलक्षणस्तथाहि ॥ द्रव्यसंग्रहो मूर्छापरिणामः प्रव्रज्या तद्विरतिपरिणामस्तयोश्चात्र बलवता मूर्छा परिणामेन तद्विरतिपरिणामो बाध्यत इति ॥
यदुक्तम् ॥ अर्थगृहीतिर्मूर्च्छा, दीक्षा तद्विरतिपरिणतिः प्रोक्ता । अनयोर्हरिमृगयोरिव, विरोध इह वध्यघातकतेति ॥
सहानवस्थानम् ॥ तथाहि ॥ द्रव्यसङ्ग्रहः सङ्गो दीक्षा च निःसङ्गता सङ्गनिःसङ्गतयोश्च युगपदेकत्रावस्थानाभावात् ॥ यदाह ॥ ग्रन्थस्य सङ्ग्रहः सङ्गो, दीक्षा निःसङ्गता स्मृता ॥ सहावस्थानीमनयो, र्न छायातपयोरिव ॥
Jain Education International
द्रव्यस्वीकारे हि यतीनां गृहिणामिव दिवानिशं तद्वर्धनरक्षणोपभोगव्यग्रत्वात् कुतस्त्या प्रव्रज्या ॥ तस्मात्तद्विरोधित्वान्न द्रव्याङ्गीकारः सङ्गतः ॥ यदुक्तम् ॥ कामाद्युन्मादहेतुत्वा
For Personal & Private Use Only
www.jainelibrary.org