________________
विभाग- १, बृहद्वृत्तिः
४५
वैयर्थ्यप्रसङ्गात् ॥ यदुक्तम् ॥ अहवा पुरिसाइन्ना नायायाराय भीयपरिसाय ॥ बालासु य वुड्ढासु य नारीसु य वज्जए कम्मं ॥
किञ्च उभयप्राप्तावाधाकर्मिकवसतिग्रहणमेव चैत्यवासं निषेधयति ॥ अन्यथा आधाकर्मादिदोषविकलसद्भावे आधाकर्मिकवसतिग्रहणं नाचक्षीत ॥ तथा स्त्रीसंसक्ताधाकर्मिकवसत्योरिव स्त्रीसंसक्तवसतिजिनगृहयोरेकतरनिर्धारणस्यागमे कारणेपि क्वचिदप्रतिपादनात् ॥
यद्यपि ग्रामाद्यन्तर्वसद्भिरित्यादिनाऽधुना जिनगृहवासस्यासमीचीनतापादनं तदप्यज्ञानविजृम्भितम् ॥ भवदभिमतजिनसदनवासपक्षेप्यधिकतरविवक्षितदोषसद्भावात् ॥
तथाहि प्रत्यहं भगवत्पुरतः शृंगारसारगायन्नृत्यद्वारांगनांगभङ्गोपांगनिरीक्षण स्तनतटावलोकनादिना तत्र वसतामिदानींतनमुनीनां कथं सातिरेका मन्मथविकाराङ्गारान दीप्येरन् ॥ ततश्चेदमुपस्थितं यत्रोभयोःसम: दोषः परिहारश्च तादृशः ॥ नैकः पर्युनुयोक्तव्य स्तादृशार्थविचारणे ॥
अयं च विशेषः ॥ अस्मत्पक्षे स्त्रीसंसक्तपरगृहे कदाचिद्वसतामप्युक्तदोषासंभवः तत्र यतनाभिधानात् ॥ भवत्पक्षे तु चैत्यवासस्य सर्वथा वर्जनीयत्वेन क्वचिदपियतनानभिधानादेतद्दोषपोषः केन वार्येत ॥
न च वक्तव्यं गृहिगृहाणां संकीर्णत्वाद्यतनाकरणेपि नोक्तदोषमोषः कर्तुं शक्यत इति प्रमाणयुक्तस्यैव गृहिमंदिरस्य प्रायेण यत्याश्रयणीयत्वेनाभिधानात् ॥ तत्र चोक्तदोषपरिहारस्य सुशक्यत्वात् । अत एव गृहिणा सकलगृहसमर्पणेपि यतीनां तस्यान्यस्य वा दौर्मनस्यनिरासाय मितावग्रहाध्यासनं सूत्रे प्रत्यपादि ॥
यदुक्तम् ॥ एवंह्मवि जं जोग्गं तदेयं जइभणिज्जइयभणिओ ॥ चुल्लीखट्टाय ममं सेसमणुन्नाय तुज्झ मए ॥ अणुणाएविं सव्वंमि, उग्गाहे घरसामिणो ॥ तहावि सीमं छिंदति, साहू तप्पियकारिणो ॥ झाणट्ठया भायणधोवणट्ठा, दुज्जट्ठया अत्थण हेउयं च, मिउग्गहं चेव अणिहयंति, मासो व अन्नोवकरिभुमन्नुंति ॥ प्रमाणयुक्तपरगृहालाभेतु सङ्कीर्णेपि तस्मिन् यतनया वसतां न दोषः ॥
॥ यदुक्तम् ॥ नत्थि उ पमाणजुत्ता, खुज्जुलियाएव सन्ति जयणाएत्ति ॥ यदपि न च एक्का मूलगुणेसुमित्यादिना तस्मात्परवसतिरसमीचीनेत्यन्तेन जिनगृहवाससमर्थनं तदपि न शोभावहम् ॥
जिनगृहस्याधाकर्मरहितत्वेपि जइवि न आहाकम्ममित्यादिना तदन्तर्वासस्य मुनीनां भगवदाशातनाहेतुत्वेनोक्तत्वात् । तस्याश्चाल्पीयस्याप्यनंतभवामयवृद्धिकारणत्वे`नापथ्याशनतुल्यत्वात् ॥ तस्मात्कथञ्चिदाधाकर्मिक्यामपि तस्यां वस्तव्यं न तु जिनगृह इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org