________________
श्री सङ्घपट्टकः
४४
वसतां तत्रापि काञ्चिद्यतनां ब्रूयान्नचैवम् ॥ ततोऽवसीयते आगारिधाम्न्येव संयतानां वासो, न चैत्य इति तस्मान्न सकर्णेन तत्र य विद्वेषो विधेय इति स्थितम् ॥
एतेन सर्वव्रतेषु निरपवादे हीत्यादिना बंभवयस्स अगुत्ती इत्याद्यन्तेन यद्यतीनां परगृहवसतिदूषणं बभाषे परेण तदपि पराकृतम् ॥ तथाहि ॥ यदीयं परगृहवसतिर्दृष्यते भवता यतीनां तत्किं सर्वदा उतस्विदिदानीमेव ॥
यद्याद्यः पक्षस्तदानीमुद्यानादिषु वसतां यतीनां कथञ्चिच्चौराद्युपद्रवात्कथं प्रतीकारः स्यात् । नच तदानीं कालसौस्थ्येन चौराद्युपसर्गाभावदुद्यानवांस एव यतीनां श्रूयते न परगृहवास इति वाच्यम् ॥ तदानीमपि चौराद्युपद्रवस्य बहुधा श्रवणात् ॥ तथा तदापि यतीनां परगृहाश्रयणस्यागमेऽभिधानाच्च ॥
यदाह || बाहिरगामे वुत्था उज्जाणे ठाणवसहि पडिलेहा ॥ इहराउ गहियभंडा वसहीवांघायउड्डाहो ॥ सव्वेविय हिंडता वसहिं मग्गंति जहउ समुयाणं ॥ लद्धे संकलियनिवेयणं तु तत्थेवडं नियाहे ॥
तथा वृषभकल्पनया स्थापिते ग्रामादौ यतीनां वसतिगवेषणचिन्तायामुक्त यथा नयराइए घिप्पइ वसही पुव्वामुहं ठविय वसहं ॥ वासकडी निविट्ठेदीकय अग्गंमिक्कापयं ॥ सिंगरकडे कलहोद्वाणं पुण नत्थि होइ चलणेसु ॥ अहिट्ठाणे पुट्टरोगो, पच्छंमिय फेडणं जाण ॥ मुहमूलंमिय चारंसिरेय ककुहेय पूयसक्कारे ॥ खंधे पह्लीइभरो पुठंमिय धायओ वसहो ॥
न चैवंविधा वसतिर्ग्रामादिमध्यमन्तरेण संभवति ॥ उद्यानवास एव च तदानी - मभिमते प्रतिपदमुक्तन्यायेन ग्रामाद्यन्तर्वसतिनिरूपणानोपपद्येत । एवं च तदानीमपि परगृहवसतेर्यतीनां भावान्न प्रथमपक्षः ॥
अथ द्वितीयः पक्षः ॥ अत्रापि वक्तव्यं कुतो दोषादधुनैव यतीनां परगृहवासो दूष्यते स्त्रीसंसक्त्यादेरिति चेत् ॥ न ॥ अस्य दोषस्य तदानीमपि भावात् ॥
न च तदापि तत्संसक्तिरहितवसतिपरिग्रहे तदलाभे चाभिहितयतनां विहायान्यः समाधिः ॥ तथा च इदानीमप्याश्रीयतां न्यायस्य समानत्वात् ॥ एवं चोक्तयतनाविधायिनां स्त्र्यादिसंसक्तवसताविदानीमपि ब्रह्मचर्यागुप्त्यादयो दोषाः परास्ताः ॥
यद्यपि तात्पर्यवृत्त्या चैत्यवासप्रसाधनार्थे एक्कामूलगुणेसुमित्यवष्टम्भेन स्त्रीसंसक्ताधाकर्मिकवसत्योः संभवे आधाकम्मिकमेव वसतिग्रहणमुपपादितं तदप्यनवगत जनमततत्त्वस्य भवतो वचः ॥ नह्यत्र सामान्यस्त्रीसंसक्तवसत्यपेक्षयाऽधाकर्मिक वसत्युपादानमुदितं किन्तु तरुणयोषित्संसक्तिमद्वसत्यपेक्षयेतिबोद्धव्यम् ॥
अन्यथा पुरुषाकीर्णबालवृद्धस्त्रीसंसक्तवसत्यपेक्षयाऽधाकर्मिकवसतिवर्जना भिधानस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org