________________
विभाग-१, बृहद्वृत्तिः
रूवं आभरणविहि वच्छालंकारभोयणे गंधे ॥ आउज्जनद्दनाडयगीये सयणे य दव्वंमि ॥ अद्धाण निग्गयाई तिख्खुत्तो मग्गिएण असईए ॥ गीयत्था जयणाए वसन्ति तो भावपडिबद्धे । जह कारणपुरिसेसु तह कारण इत्थियासुवि वसंती ॥ अद्धाण वाससावय तेणेसुय कारणे वसइ ॥
ततोऽपोद्य किं कृतमित्याह ॥ न्ययमि संयतानां निवास इति सम्बन्धः ॥ संयतानां निवासोऽवस्थानं न्ययमि ॥ संयतवासस्य सामान्येन सर्वत्र प्रसृतस्य पाक्षिक्यां चैत्येपि प्राप्तावेकविषयतया व्यवस्थापने नियमः ॥ नियमः पाक्षिके सतीति वचनात् ॥ तेनैकविषयतया व्यवस्थापित इत्यर्थः विषयैक्यमेव दर्शयति ॥ अगारिधाम्निगृहस्थागारे ॥ ___ कीदृशे स्त्रीणां योषितां संसक्तिः संसर्गोरूपाद्यापातप्रत्यासत्तिः ॥ आदिग्रहणात् पशुपण्डकादिग्रहः तद्युक्तेऽपि तत्सहितेपि ॥ आस्तां तद्ररहित इत्यपिशब्दार्थः ॥ नजा वयस्स अगुत्ति इत्यादि वचनात् स्त्रीसंसक्तिमति पशुपंडगे सविइहं मोहानलदीवियाण जं होई ॥ पायमसुहा पवित्ती पुव्वभवप्पभासओ तहयेत्यादिवचनात्पशुपण्डकसंसक्तिमति च परसदने वसतां संयतानां मन्मथोत्कलिकाद्यनेकदोषसंभवात् कथं तत्र वासो नियमितस्तत्राह ॥
अभिहिता निशीथे प्रतिपादिता यतना स्त्रीसंसक्त्यादिसंभवात्कन्दर्पविकाराद्यसत्प्रवृत्तिनिवृत्तिपटीयसीतिरस्करणीकटाद्यंतर्धानरूपाचेष्टा ।। यदाह ।। जीइपभूवतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु सिज्जइ चिट्ठाइ जओ सा जयणाणाइविविइमि ॥ ' आणाइ विविइंमिति ॥ आज्ञया आप्तोपदेशनीत्या विपदि द्रव्यक्षेत्रकालभावादीत्यर्थः ॥ तत्कारिणां तदुद्यतानां ॥ यदाह ॥ भावंमि ठायमाणा पढम ठायंति रूवपडिबद्धे ॥ तहियं कडगचिलमिणी तस्सासइ ठंति पासवणो ॥ पासवणमत्तएसुं ठाणे अन्नत्थ चिलिमिणीरूवे सज्जाए झाणेवा आवरणे सद्दकरणेय ॥ जहि अप्ययरा दोसा ॥ आभरणाईण दूरओयसिया चिलमिणि निसिजागरणं गीए सज्जायझाणाइ ॥ अद्धाणनिग्गयाईतिखुत्तो मग्गिऊण असईए ॥ ग्गीयत्था जयणाए वसन्ति तो दव्वसागरिए ॥ अद्धाण निग्गयाइं वासे सावयतिए व तेणभए, आवलिया तिविहेवी, वसन्ति जयणाए गीयत्था ॥ ___ इयं यतना स्त्रीसंसक्तवसतिमधिकृत्योक्ता ॥ पशुपण्डगसंसक्तायामपि वसतौ वसतामेतदनुसारेण संभवनीययतना दृष्टव्या ॥ तदयमर्थः ॥ स्त्रीसंसक्त्यादिसंभवेप्येवंविधयतना सावधानानां मुनीनां न तज्जन्या दोषाः प्रादुष्यन्ति सर्वत्र सर्वस्मिन्नपि वसत्यधिकारप्रवृत्तोदेशकादौ ॥ . नन्वेवं यतनावतां चैत्यवासेपि को दोष इत्यत आह ॥ नतु ॥ तुर्भेदेऽवधारणे वा ॥ तेन नपुन नववा मत इष्टः ॥ क्वापि उद्देशकादौ चैत्ये जिनगृहे निवासो ॥ निवास इत्युभयत्र योज्यते ॥ एतदुक्तं भवति ॥ यदि हि चैत्यवासो यतीनां क्वचिन्मतःस्यात्तदा स्त्रीसंसक्त्यादियुक्त इव गृहे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org