________________
४२
श्री सङ्घपट्टकः वत्थन्नपाणसयणासणविगप्पा इत्यादि ॥ तथाऽनगारपदं च जानन्तिसबंध्यते ॥ चः समुच्चये ॥न विद्यतेऽगारं गृहं यस्य स अनगारस्ततश्चानगार इति पदं व्यपदेशस्तत् श्रुते ह्यनगारपदं श्रूयते ॥ तच्च तेषां स्वागाराभावेन परागारवासेन च सङ्गच्छते ॥ अन्यथा स्वगारसद्भावे चैत्यवासे वा यथाक्रमं यते र्गृहपतिमठपतिव्यपदेशप्रसङ्गेनानगार-पदवैयर्थ्यमापद्येतेति ॥
ननु कथमेतदेवं यावता यहि सर्वथागमे चैत्यवासोऽनभिमतः स्यात्तदापरगृहवसतिः क्षम्येतापि ॥ यदा तु तत्र क्वचिच्चैत्यवासेभिहितेपि हठेनैव भवद्भिः परगृहवसतिराश्रीयते तदा कथं क्षम्यत इत्यत आह ॥
चित्रोत्सर्गेत्यादि ॥ यत् यस्मात् इहेति सन्मुनीनां नित्याभ्यासविषयत्वेन पुरोवर्तिनि अथवा इह प्रवचने निशीथे प्रकल्पाध्ययने पञ्चमोद्देशकादौ किंभूते ? सामान्य विधिरुत्सर्गः विशेषविधिरपवादः ॥ उज्जुयमग्गुसग्गो अववाओ तस्स चेव पडिपक्खो ॥ उस्सग्गाउ पडतं धरेइ सालम्बणमवाओ ॥ इति वचनात् ॥ उत्सर्गश्चापवादश्चेति द्वन्द्वः ततश्च चित्रौ नानाविधौ वसत्यादिगोचरावुत्सर्गापवादौ सामान्यविशेषविधी यत्र स तथा तत्र ॥
शिवपुर्य्या निःश्रेयसनगा दूतभूतः संदेशहरसदृशस्तत्र भूतशब्दस्यात्रसदृशवाचित्वात् ॥ तेनायमर्थः ॥ यथा कश्चित्परराजदौवारिकादिः कस्यांचित्पुरि प्रविविक्षुस्तत्पृथ्वीपतिसंदिष्टदूतभणितेन प्रवेशं प्राप्नोति तथा यतिरपि निःश्रेयसपुरे निशीथप्रतिपादितविधिनेतिप्राक् प्रथमं उक्त्वा प्रतिपाद्य भूरिभेदाः प्रभूतप्रकारा गृहिगृहवसतीर्गृहस्थसदनरूपोपाश्रयान् पश्चाच्चरमकारणे तथाविधवसत्यलाभलक्षणे हेतौ अपोद्य अपवादविषयीकृत्य ता एवेति गम्यते ॥
. अयमर्थः ॥ निशीथे हि पूर्वमौत्सर्गिका वसतिभेदा यतिनिवासयोग्यत्वेन प्रतिपादिताः यथा मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं, सेविज्ज सव्वकालं विवज्जाए हुंति दोसाओ ॥ विछिन्ना खुड्डुलिया पमाणजुत्ताउ तिविहवसहिओ ॥ पढमबियासुट्ठाणे ॥ तत्थय दोसा इमे हुंति ।।
- साध्वीरुद्दिश्योदिता ॥ गुत्तागुत्तदुवारा कुलपत्ते सत्तिमन्तगम्भीरे ॥ भीयपरिसमद्दविए अज्जासिज्जायरे भणिए ॥ घणकुड्डा सकवाडा सागारियभगिणिमाइपेरंता ॥ निप्पच्चवायजोगा विच्छिन्नपुरोहडा वसही ॥
तदलाभे पश्चात्ता एवापोदिताः ॥ यथा ॥ द्रव्यप्रतिबद्धायामपि वसतौ कारणेन वस्तव्यम् । तथा चाह ।। अद्धाण निग्गयाई तिक्खुत्तो मग्गिऊण असईए ॥ गीयत्था जयणाए व सन्ति तो दव्वपडिबद्धे ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org