________________
विभाग-१, बृहद्वृत्तिः
४१
एवं निषेविता जिनादिभिः परगृहवसतिः ॥ तथा संविग्गसन्निभद्दगसुन्ने नीयाइमुत्तहाछंदे ॥ वच्चंतस्सेएसुं वसहीए मग्गणाहोइ ॥ इत्यादिना बहुधा सप्रपञ्चं जिनादिभिरुक्ता च तां ॥ तत्र च निषेवितोक्ते ति समासकरणं भगवद्वचनक्रिययोः सर्वदाप्यविसंवादं सूचयति ॥
तथा सज्यते जनोस्मिन्निति सङ्गः ॥ सदनधनकनकतनयवनितास्वजनपरिजनादिपरिग्रहः ॥ निर्गतः सङ्गान्निःसङ्गस्तेषां भावः तस्याः अग्रिमं मुख्यं पदं स्थानं मुनीनां परगृहवसतिः सत्यां हि तस्यां निःसङ्गतापदमनुबध्नाति ॥
तथाहि ॥ साधूनां परगृहवसतिमुपलभ्य लोके वक्तारो भवन्ति ॥ किलातिदुर्गतानामपि प्रायेण तृणकुटीरकमात्रं स्वसत्तायां भवत्येषां तु तदपि नास्तीत्यहो निःपरिग्रहताऽमीषाम् ॥ तदुक्तम् ॥ धन्या अमी महात्मानो निःसङ्गा मुनिपुंगवाः ॥ अपि क्वापि स्वकं नास्ति येषां तृणकुटीरकम् ॥ परगृहवासं विना तु संप्रत्युद्यानवासस्याशक्यत्वेन मुनीनां स्वगृहार्थमारम्भसम्भवे मुनित्वहान्या जनोपहासापत्तेः ॥
तदुक्तम् ॥ जे घरसरणपसत्ता छक्कायरिउ सकिञ्चणा अजया || नवरं मोत्तूण घरं निसंकमणं कयं तेहिं ॥ निःसङ्गताया अग्रिमं मौलंपदं लक्ष्म लिङ्गमित्यर्थः ॥ पदं व्यवसिति त्राणस्थानलक्ष्मांघ्रिवस्तुष्ठिवत्यनेकार्थवचनात् ॥ निःसङ्गता हि मुनित्वस्य लक्षणं वह्निरिवदाहपाकादि सामर्थ्यस्य तस्याश्च लिङ्गं परगृहवसतिः धूम इव वह्नेः निःसङ्गतामन्तरेण हि नि:स्पृहस्य परगृहवसतिर्वह्निं विना धूमलेखेवानुपपद्यमानतां गमयति ॥
अतो निःसङ्गतानान्तरीयकत्वाद्भवति निस्पृहस्य परघरवसतिस्तल्लिङ्गम् ॥ न हि स्वाधीने विभवे मनस्वी कश्चित्परमुपजीवेदिति ॥ अत्र च पदशब्दस्याविष्टलिङ्गत्वान्न विशेष्यलिङ्गता ॥
किं कुर्वन् न विद्वेष्टीत्यत आह || जानन् आगमश्रवणेनावबुध्यमानः ॥ कां शय्यातर इत्युक्तिर्भाषा तां ॥ सिद्धान्ते हि शय्यातर इति भाषा श्रूयते ॥ नचासौ साधूनां परगृहवासं विनोपपद्यते ॥ तथाहि शय्यावसत्या यतिभ्यो दानात्तरत्ति संसारपारावारमिति शय्यातरशब्दार्थः ॥
तदुक्तम् ॥ शय्यावसतिराख्यातायतिभ्योदानतस्तस्याः ॥ यस्तरति भवाम्भोधिं शय्यातरमुशन्ति तम् ॥ परगृहवसतिं विना तु यतीनां न कस्यचित्साधुशय्यादानेन तरणमस्तीति शय्यातर शब्दस्य स्वार्थालाभेन निर्विषयत्वापत्त्या सिद्धान्ते प्रतिस्थानमुच्चरणं कथमिव शोभां बिभृयात् तस्मादागमे शय्यातरशब्दश्रुतेरपि परगृहवसतिर्मुनीनामवसीयते ॥
तथा चागमः ॥ सिज्झायरुत्तिभान्नइ आलयसामिति ॥ तथा सिज्झायरो पहूवा पहुसंदिट्ठो व होइ कायव्वो इत्यादि । मुत्तूणगेहंतु सपुत्तदारो वणिज्जमा हिउकारणेहिं ॥ सयं व अन्नं व वइज्ज देसं सिज्जायरो तत्थ सएव होइ ॥ तथा ॥ जो देइ उवसयं मुणिवराण तवनियमबंभजुताण || तेणं दिन्ना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org