SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४० श्री सङ्घपट्टकः वसत्यक्षमाद्वारं वृत्तद्वयेन निरसिसिषुराह ॥ ॥ मूलकाव्यम् ॥ साक्षाज्जिनगणधरैश्चनिषेवितोक्ताम्, निःसङ्गताग्रिमपदं मुनिपुङ्गवानाम् । शय्यातरोक्तिमनगारपदं च जानन् विद्वेष्टि कःपरगृहे वसतिं सकर्णः ॥८॥ चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे, प्रागुक्त्वाभूरिभेदा गृहिगृहवसती:कारणेपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेप्यभिहितयतनाकारिणां संयतानाम् सर्वत्रागारिधाम्नि न्ययमि न तु मतःक्वापि चैत्ये निवासः ॥९॥ कासकर्णःपमान परगहे गहिसदने वसतिं निवासं विद्वेष्टि अनशेते मात्सर्यान्न क्षमते निषेधतीतियावत् । मुनिपुङ्गवानां सुविहितयतीनां न कश्चिदित्यर्थः ॥ अयमर्थः अकर्णो हि कौँ विना सिद्धान्तोक्तामपि परगृहवसतिमनाकर्णयन् द्विष्यादपि यतो लोकेपि बधिरस्तोकमपितद्वचनाश्रवणान्मामेषोधिक्षिपतीति मन्यमानो द्विषन्नुपलभ्यते ॥ यःपुनः सकर्णः स श्रवणोऽथ च हृदयःपरगृहवासचैत्यान्तर्वासगुणदोषविचारचतुर इति यावत् ॥ स परगृहवसतिं यतनामनुमोदयत्येव न तु द्वेष्टि ॥ किंरूपां वसतिमित्याह ॥ निषेविता निवासेनोपभुक्ता उक्ताच स्वमुखेन यत्याश्रयणीयत्वेनागमे प्रतिपादिता निषेविता चासावुक्ताचेतिकर्मधारयः कथं साक्षात्प्रत्यक्षं स्वयमित्यर्थः ॥ कैजिनैस्तीर्थकृद्भिः गणधरैर्गौतमस्वामिप्रभृतिभिः ॥ चः समुच्चये ॥ तथाहि ॥ भगवान् श्रीमहावीरो वर्षाचतुर्मासकं तिष्ठासुर्दूयमानपाखण्डिनामाश्रमं गतस्तत्कुलपतिना भगवत्पितुवयस्येन सबहुमानमनुज्ञातस्तदुटजमध्युवासेत्यादि श्रूयते तथा चावश्यकचूर्णिः ॥ ताहे सामी वासावासे उवागए तं चेव दूइज्जतग गामं एइ ॥ तत्थेगंमि उडए वासावासं ठिओत्ति ॥ तथा ॥ ताहे सामीरायगिहओ तत्थ बाहिरिगाए तंतुवायसालाए एगंदिसिं अहापडिरूवं अवगहं अणुन्नवित्ता चिट्ठइ त्ति ॥ तथा श्री सिंहगिरिसूरयो वैरमुनि वसतिपालं संस्थाप्य बहिः संज्ञाभूमिं गता इति च श्रूयते ॥ तथाहि ॥ अन्नया आयरिया मज्झएहे साहुसु भिसुं निग्जएसु सन्नाभूमिं निज्जया ॥ वइरसामीवि पडिस्सयपालोत्ति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy