________________
३८
श्री सङ्घपट्टकः राचरितत्वेनापास्तत्वात् ॥ तेषां बहूनामप्याचरणाया अशुद्धिकरत्वेनाप्रामाण्याङ्गीकारात् ॥ गीतार्थस्य चैकस्यापि तस्याः प्रामाण्योपगमात् ॥
यदाह ॥ जं जीयमसोहिकरं पासत्थपमत्तसंजयाइ णं बहुएहिवि आइन्नं न तेण जीणए ववहारो। जंजीयं सोहिकरं संविग्गपरायणेण दंतेण इक्केणवि आइन्नं तेणय जीएण ववहारो॥
एतेन यदपि गीतार्थाचरितत्वस्यासिद्धादिहेत्वाभासनिरासप्रतिपादनं तदपि मुग्धस्य निबिडमंशुकग्रन्थौ काञ्चनं बध्नतश्छिद्रेण तत्पतनमनुपलक्षतो वृत्तान्तमनुहरति ॥ हेत्वाभासोद्धारं कुर्वतापि भवता हेतोर्गीतार्थाचरितत्वस्योक्तन्यायेन पतनानवगमात् ॥
यदपि किञ्च चैत्यवासमन्तरेणेत्यादिना तथा तीर्थाव्यवच्छेद इत्यन्तेन तीर्थाव्यवच्छित्या चैत्यवासप्रतिष्ठापनं तदपि न सुन्दरम् ॥ यतः ॥ केयं तीर्थाव्यवच्छित्तिः.? किं यतीनां चैत्यान्तर्वासेन बहुकालं भगवद्देवगृहबिम्बाद्यनुवृत्तिः ॥ अहोस्वित् शिष्यप्रशिष्यपारंपर्येणाविच्छिन्नप्रसरा सम्यग्ज्ञानदर्शनचारित्रप्रवृत्तिः ॥
न तावदाद्यः ॥ चैत्यवासमन्तरेणापि भगवद्विम्बाद्यनुवृत्तिमात्रदर्शनात् ॥ तथा हि पूर्वदेशेऽद्यापि तादृक्प्राकृतजनेन कुलदेवताबुद्ध्या नमसितकीकृतापेयाभक्ष्यादिनापि नमस्यमानानां जिनबिम्बानामनेकधोपलब्धेः ॥ अन्यतीर्थिकपरिगृहीतानां च तेषां तथैवानुवृत्त्युपलम्भाच्च ॥
तथाचैतावतैव भवदभिमततीर्थाव्यवच्छित्तिसिद्धेः किं निष्फलेन चैत्यवाससंरम्भेण ॥ न चैतावता तीर्थाव्यच्छेदकार्यनिःश्रेयसादिफलसिद्धिः ॥ मिथ्यादृष्टिपरिगृहितानां प्रतिमानां मोक्षमार्गानङ्गत्वेनाभिधानात् ॥ मिच्छदिट्ठिपरिग्गहियाओ पडिमाओ भावगामो न हुतित्ति वचनात् ॥ ____ अथ द्वितीयः कल्पः ॥ तर्हि सैव तीर्थाव्यवच्छित्तिरभ्युपेयतां मोक्षमार्गत्वात् ॥ किं तदननुगुणोत्सूत्रचैत्यवासाश्रयणेन ॥ यदाह ॥ सीसो सज्जलगो वा गणिव्वेओ वा न सुग्गइंनिति ॥ जं तत्थ नाणदंसणचरणा ते सुगईमग्गो ॥
सम्यग्ज्ञानदर्शनचारित्रानुवृत्तिं विना च जिनगृहबिम्बसद्भावेपि तीर्थोच्छित्तिः ॥ अत एव जिनान्तरेषु केषुचिद्रत्नत्रयपवित्रमुनिविरहात् क्वापि जिनबिम्बसम्भवेपि तीर्थोच्छेदः प्रत्यपादि ॥ स्वमतिकल्पिता चेयं प्रकृता तीर्थाव्यवच्छित्ति रागमविसंवादित्वाद्धयेव ॥
यदाह । नय समइवियप्पेणं, जहातहा कयमिणं फलं देइ ॥ अवि आगमाणुबाया रोगतिगिच्छाविहाणं व ॥ किञ्च भवतु जिनगृहाद्यनुवृत्ति स्तीर्थाव्यच्छित्तिस्तथापि न यति चैत्यवासजिनगृहाद्यनुवृत्त्योः श्यामत्वचैत्रतनयत्वयोरिव प्रयोज्यप्रयोजकभावः ॥ न हि यतिचैत्यान्तर्वासप्रयुक्ता तदनुवृत्तिः ॥ तदन्तर्वसद्भिरपि यतिभिरतिसातशीलतया तच्छीर्ण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org