SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विभाग-१, बृहद्वृत्तिः ३७ रचनाय समुद्धके द्रव्यं निक्षिप्तं ॥ तस्य च द्रव्यस्य वृद्ध्यादिवद्धितलाभेन जिनगृहसमारचनया भवत्यक्षयानीवी । तथाहि यस्मात् एवमनेन प्रकारेण इदं जिनगृहं ज्ञेयं वंशतरकाण्डम् ॥ एतदुक्तम् भवति ॥ तत्र नगरादौ स्थितानां हि साधूनां जिनगृहागतानां धर्मदेशनया भव्यलोकस्योत्तरोत्तर गुणस्थानप्रापणेनाक्षयनीवीसमारचनादिना भूरिकालमनुवृत्या च कारयितुस्तद्वंश्यानां तदन्येषां चाचिन्त्यपुण्यसंभारकारणत्वात् संसारकूपारतारणाच्च भवति जिनभवनं वंशतरकाण्डमिति ॥ एवं चास्य तात्त्विके व्याख्याने कुतश्चैत्यगृहवासावकाशः ॥ यदपि समरादित्यकथायां साध्व्याश्चैत्यान्तः प्रतिश्रयप्रतिपादनेन चैत्यवासव्यवस्थापनं तदपि सकलजनताप्रकृतिसुभगवत्त्वेनास्यामसर्वदोषायामतिसरसायां माधुर्यसौकुमार्यवर्यायां कथायां पृथिव्यामिवनिहितं चैत्यवासप्रतिपादनं बीजमिव प्रथते इति विचिन्त्य केनापि धूर्त्तेनाखीति संभाव्यते ॥ अत एवावश्यकटीकायां पञ्चनमस्कारनिर्युक्तौ ॥ रागदोस कसायाई, इंदियाणी य पञ्चवि इत्यादि श्लोकं विवृण्वन् समरादित्यकथाकार एव चित्रमयूरनिगीर्णोदीर्णहारादिप्रतिबद्धायां सर्वाङ्गसुन्दरीगणिन्याः कथायां चैत्यवासानभिलापनैव केवलज्ञानोत्पादं प्रत्यपीपदत् ॥ इत्थं च तत् ॥ कथमन्यथा तथाविधाः श्रुतधराः स्वग्रन्थेषु वसतिं विस्तरेण यतनां व्यवस्थाप्य क्वचिदागमविरुद्धचैत्यवासमभिधास्यन्ति ॥ आगमविरोधश्चात्र स्फुट एव ॥ तथाहि || अवसप्पिण्यां सुषमदुःषमादुःषम सुषमयोः सामन्येनैव केवलज्ञानोत्पादप्रतिपादनात् ॥ दुषमायां तु चतुर्थारकप्रव्रजितानामेव तदभिधानात् ॥ चैत्यवासस्य चानंततमेन कालेन दुःषमायामेव समाम्नायत्वात् ॥ न च तदारम्भ एव चैत्यवासाभ्युपगम इति वाच्यम् ॥ बारवाससएहिं सठ्ठेहि मित्यादिना गणधरपूर्वधरादिपुरुषसिंहात्यय एव सातशीलैः कैश्चिदेव तत्प्रकल्पनस्य श्रवणात्, तत्क्षेत्रन्यायस्य क्षेत्रान्तरेष्वपि नवसु प्रज्ञापनात् ॥ अतः कथं चैत्यवासकाले केवलोत्पादः सङ्गच्छेत इति ॥ यदपीदानीं बहूनामेकवाक्यतया चैत्यवासप्रवृत्या तत्समर्थनं तदप्यसङ्गतम् ॥ सुखलोलतया श्रुतनिरपेक्षाया बहुजनप्रवृत्तेरप्यप्रामाण्योपगमात् ॥ अन्यथा मरीच्यादिप्रज्ञप्तप्रवृतेरपिप्रामाण्योपपत्तेः ॥ सातसंपल्लंपटानां चेयं प्रकृता प्रवृत्तिः ॥ यदुक्तम् || अहमाहमेहि नामाइयरियउवज्झायसाहुलिङ्गीहिं ॥ जिणघरमढआवासो, पकप्पिओ सायसीलेहिं ॥ यदपि विशेषदोषानुपलम्भात् गीतार्थाचरितस्यास्या प्रामाण्यनिरसनं तदप्यसमीचीनम् ॥ उत्सूत्राचरणाया विशेषदोषस्य प्रागेव दर्शितत्वात् ॥ गीतार्थाचरितत्वस्य च पार्श्वस्थादिभि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy