SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३६ श्री सङ्घपट्टकः सकलोपि पूर्वापराविरोधेन सम्यक् विविच्य व्याख्येयः ॥ तथाह्यल्पक्रियां वसतिं व्याचक्षाणेन श्रीहरिभद्रसूरिणा व्याख्यातम् ॥ इत्थ सयट्ठा नेया जा नियभोगं पडुच्चकारविया ॥ जिणबिम्बपइट्टत्थं, अहवा तक्कम्मतुल्लति ॥ या निजभोगं स्वकुटुम्बोपभोगं प्रतीत्योद्दिश्य गृहिणा कारिता सा स्वार्था वसतिरत्र च स्वोद्देशेन कारितत्वात् स्वार्था स्फुटैव न केवलमियमेव यावदन्यापीत्याह ॥ जिनबिम्बप्रतिष्टार्थम् ॥ अथवेत्यनेन स्वार्थकारितेत्यनुषज्यते ॥ जिनबिम्बप्रतिष्ठामुद्दिश्य गृहिणा कारिता सापि स्वार्था ॥ नन्वेषा सार्मिकनिमित्तं कृतत्वाद्यतीनां न कल्पिष्यत इत्यत्र आह ॥ तत्कर्मतुल्या जिनाधाकर्मसमा ॥ यथा जिनस्यासार्मिकत्वात्तन्निमित्तं निष्पन्नं भक्तादि मुनीनां कल्पते एवं वसतिरपि ॥ यथोक्तम् ॥ साहम्मिओ न सक्खा, तस्सकयं तेण कप्पइ जईणं ॥ जंपुण पडिमाण कयं, तस्स कहा का अजीवत्ता ॥ तेनैतदुक्तंभवति ॥पूर्वं हि प्रतिष्ठा प्रयोजनेन गृहिणा स्वद्रविणेन पृथक् मण्डपादिः कारितः ॥ ततः पश्चात्ते प्रतिष्ठाप्रयोजने प्रतिमा मध्येजिनगृहं निवेशिता, मण्डपादिश्च प्रतिमाधिष्ठानशून्यः श्रावकसत्तयैव ॥ ततस्तदनुज्ञया तद्हे इव तत्रापि यतीनां निवासे न चैत्यवाससिद्धिः जिनबिम्बशून्यत्वात्तस्येति ॥ एवं जिनभवनोद्देशेन निर्मापयितुरुत्तरोत्तरफलं प्रतिपादयता तेनैवाभिहितम् ॥ जिणबिम्बस्स पइट्ठा, साहुनिसोय इत्यादि ॥ पूर्वं हि श्राद्धो जिनगृहं कारयति ॥ ततोजिनबिम्बं ततस्तत्प्रतिष्ठां ॥ ततस्तत्र ग्रामादौ साधूनां निवासोऽवस्थानं भवति ॥ चैत्यगृहाध्यासिते हि नगरादौ प्रायेण विहारकर्मादिना यतीनां निवासो भवति नत्वत्रोक्तं जिनगृहे साधुनिवास इत्यतः कथमितो जिनभवनवासः सिध्येत ॥ एवं देयं तु न साधुभ्य इत्यस्याप्ययमर्थः ॥ कारयित्वापि गृहिणा साधुभ्यः पुनर्वस्तुं जिनगृहं न देयं भगवदागमे निवारणात् ॥ यथाच येन च प्रकारेण शुद्धवसतिभक्तपानकादिधर्मोपग्रहदानेन तत्र नगरादौ विहारक्रमेणागताः सन्तस्ते तिष्ठिन्ति तथा कार्यम् ॥ वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताइ ॥ जइवि न पज्जत्तघणो, थोवावि हु थोवयं दइ ।। इतिवचनात् ॥ . वसत्यादिदानं विना तत्रागतानामपि यतीनामवस्थानानुपपत्तेः ॥ गृहिणोपि च यतिविहारदेशमन्तरेणोत्सर्गेण वासानधिकारात् ॥ यदुक्तम् ॥ श्रावकविधिमभिदधता श्रीविरहाङ्केन ॥ निवसिज्ज तत्थ सट्टो, साहूणं जत्थ होई संपाओ ॥ चेईहराइ जम्मि, तदन्नसाहम्मिया चेव ॥ तथाऽक्षयाऽविनश्वरीनीवी मूलधनं गृहिणा हि जिनगृहं कारितवता शीर्णजीर्णतत्समा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy