________________
३५
विभाग-१, बृहद्वृत्तिः
द्वितीयःपक्षः ॥ तदेवमेतत् ॥ एवंविधोत्सूत्राचरणाया भगवल्लाघवहेतुत्वात् ॥ यदाह ॥ सुयबज्झाचरणरया पमाणयंतो तहाविहं लोगं ॥ भुवणुगुरुणो वराया पमाणयनावगच्छंति ॥
अत एवैवंविधानां धर्मायोग्यतैव सिद्धान्ते प्रतिपादिता ॥ यदाह ॥ सुत्तेण चोइओ जो अन्नं उद्दिसिय तं न पडिवज्जे सो तं तवायबज्जो न होई धम्मंमि अहिगारी ॥
एवं चोत्सूत्रं चैत्यवासमाचरन्तस्ते कथमशठास्तादृशांश्रुते शठत्वाभिधानात् ॥ यदाह ॥ उस्सूत्तमायरंतो बन्धई कम्मं सुचिक्कणं जीवो संसारं च पवढ्इ मायामोसं पक्कुवइ य॥
जीववधाद्यवद्यरहितत्वान्न सावद्यैषाचरणेत्येतदप्ययुक्तम् ॥ जीववधादिसकलपापेभ्योप्यधिकत्वेन प्रतिपादनादुत्सूत्रप्ररुपणायाः ॥ तथाचाहुः श्रीमत्पूज्या एतत्प्रकरणकारा एव ॥ अहह सयलन्नपावाहि वितहपन्नवणमणुमवि दुरंतं ॥ जं मरिइभवतदज्जियदुक्कयअवसेसलेसवसा ॥ सुरथुयगुणो वि तित्थेसरोवि तिहुअणअतुल्लमल्लोवि ॥ गोवाइर्हिवि बहुहा कयत्थिओ तिजयपहु तंपि ॥ थीगोबंभणभूणंतगावि केइ पुण दढप्पहाराइ ॥ बहुपावावि पसिद्धा सिद्धा किर तंमि चेव भवे ॥
अत एवैषा नूनं गीतार्थोनिवारितापिकैश्चिदेवैहिकसुखलोलुपतया परलोकनिरपझै राहता ॥ यदपि हरिभद्राचार्यादीनां तथाप्रवृत्तिश्रवणादेषा बहूनामनुमतेत्यवादि तदपि किं हरिभद्रचार्यादीनां तथाप्रवृत्ति श्रवणप्रवादपारम्पर्यात् उत्स्वित्तद्ग्रन्थेषु चैत्यवासप्रतिपादनात् ॥
'न तावदाद्यः ॥ प्रमाणशून्यस्य प्रवादपारम्पर्यस्य अक्षरक्ष इत्यादिवदसत्यत्वात् ॥ अस्त्येवात्र तद्ग्रन्थेषु चैत्यवासप्रतिपादनमेव प्रमाणं द्वितीयः पक्ष इति चेत् ॥न ॥ तद्ग्रन्थार्थपर्यालोचनेन यतीनां चैत्यवासनिषेधाध्यवसायात् ॥ ...तथाहि ॥ तैरेव जिनभवननिर्मापणविधिः पञ्चाशके श्राद्धस्य स्वाशयवृद्धि मधिकृत्योक्तम् ॥ पिच्छिस्सं एत्थ अहं वंदणगनिमित्तमागए साहू ॥ कयपुन्ने भगवंते गुणरयणनिही महासत्ते ॥ _ यदि ह्ययं चैत्यवासमभिप्रेयात् तदा जिनभवननिर्मापयितुः श्राद्धस्याशयवृद्धि निरूपयन् चैत्यवन्दननिमित्तमागतान् साधूनहमत्र प्रेक्षिष्य इति नाभिदधीत किं त्वत्र वसतः साधून् प्रेक्षिष्य इति प्रतिपादयेन्न चैवमतो निश्चीयते नायमस्य चेतसि निविशत इति ॥
ननु कथमयं निश्चयो यावताऽस्यैव ग्रन्थान्तरेषु जिणबिम्बपइट्टत्थमित्यादिना चैत्यवासप्रतिपादनोपलंभादितिचेत् ॥न ॥ ग्रन्थान्तराणामप्येतदविरोधेनैव व्याख्यानात् ॥न हि तथाविधा माग्रन्थकाराः परमात्मान ऐदंयुगीनसमयसिद्धान्तार्थपारावारपारगता:परस्परविरोधिनसमर्थं स्वग्रन्थेषु निमन्त्सन्तीति संभवति ॥
अन्यथा तेषामपि लोकविप्रलिप्सयैव प्रवृत्तत्वेनानाप्तत्वप्रसङ्गात् ॥ तस्मात् तद्ग्रन्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org