________________
३४
शातनादिभिश्च महादोषत्वेनास्य ॥ स्तोकापराधत्वानुपपत्तेः ॥
अत एव न बहुगुणत्वमिति आगमाविरूद्धाचरणानभ्युपगमे भगवदप्रामाण्या सञ्जनंत्वस्या आगमविरोधेन निरस्तं चैत्यवासप्रतिषेधकागमेनैव प्रागुक्तेनास्या आगमविरोधस्य स्फुटत्वात् तद विरूद्धाया एव चास्या प्रामाण्योपगमात् ॥
यदुक्तम् || आयरणा विहु आणाविरूद्धगा चेव होई नायंतु इहरा तित्थयरासायणत्ति ॥
यदप्यत्राशठाचरितवाद्याचरितलक्षणोपपादनं तदवद्यं ॥ तथाहि ॥ कालाद्यपेक्षया गुरुलाघवचिन्तया अशठैरियमाचरणा व्यधायीत्यवादि भवता तत्र न तावदुत्सूत्राचरणापराणां कालापेक्षा परित्राणाय ॥
श्री सङ्घपट्टकः
तथा च तन्निर्युक्तिः पञ्चसीए चुलसीए तइया सिद्धि गयस्स वीरस्स || अव्वट्ठियाणदि दसउरनयरे समुप्पन्ना ॥
तथा चानयोर्गाथयोरव्यक्तदृष्टयुत्पादभवदुपदर्शितार्यरक्षितप्रकल्पितचैत्यवासयोः कालमानं पर्यालोच्यमानं न घटां प्रांचतीति कथं न विरोधः ॥ किञ्च सिद्धान्तात् साक्षादसिद्धागमोक्तहेतौ दूषितेस्तु तर्हि गीतार्थाचरितत्वं हेतुरिति ब्रुवाणस्य भवतो हेत्वन्तरनिग्रहस्थाना-पत्तेः ॥
यदपि निस्सकडेत्यादिना आचरणाया आगमाविरोधाभिधानं तदपि निस्सकडेकाइगुरुइत्याद्यागमस्य वस्तुतो वसतिवासस्थापकत्वेनापास्तम् ॥ यदपि अविलम्बीउणेत्यादिना चैत्यवासाचरणायाः प्रामाण्याभ्युपगमवर्णनं तदप्यत्र कार्यावलम्बनादेरभावादपाकर्णनीयम् ॥ यदाह ॥ कालोवि वितहकरणेगं तेणेवहोइ करणं तु ॥ न हि एयंमि विकाले विसाइ सुहयं अमंतअं ॥
किञ्च केयं गुरुलाघवचिन्ता किं स्तोक गुणपरित्यागेन प्रभूततमगुणोपार्जनम् ॥ यदाह ॥ अप्पपरिच्चाएणं बहुतरगुणसाहणं जहिं होइ सा गुरुलाघवचिन्ता जम्हानाओववन्नत्ति ॥
तथाहि अस्यां चैत्यवासाचरणायां तीर्थानुच्छित्यादयो भूयांसो गुणाः ॥ दोषश्च देव - चिन्ताकरणेन द्रव्यस्तवाङ्गीकारोऽल्प इति ॥ अहोस्विद्गुरोर्भगवतो लाघवम् अवज्ञाचिन्तयेति ॥
न तावदाद्यः पक्षः ।। चैत्यवासाचरणाभ्युपगमे यतीनां देवकुलकर्मान्तरवाटिकाक्षेत्रादिचिन्तादिभिश्चारित्रसर्वस्वापहारेण बहुत्यागात् ॥ न चाल्पगुणलिप्सया बहुगुणत्यागाय स्पृहयन्ति प्रेक्षावन्तः ॥ यदुक्तम् ॥
Jain Education International
नय बहुगुणचाएणं थोवगुणपसाहणं बुहजणाणं । इट्टंकयाइ कज्जं कुसलासुपयट्ठियारम्भा ॥
For Personal & Private Use Only
www.jainelibrary.org