________________
३३
विभाग-१, बृहद्वृत्तिः सद्धाभङ्गोयसवाणमित्यागमः ॥ पुनरनिश्राकृताभावे लोकापवादरिरक्षिषया श्राद्धश्रद्धाविवर्धयिषया च मा भूदेवगृहागततथाविधोच्छंखलसमुज्वलनेपथ्यपार्श्वस्थाद्यवलोकनेनामीषां विपरिणाम इत्यगीतार्थानां वसतौ प्रेषणेन व्याख्यानादिकृते कतिपयगीतार्थयतिपरिवृतस्य सुविहिताचार्यस्य निश्राकृतेऽवस्थानं प्रतिपादयन् वसतिवासमेव यतीनां प्रत्युत प्रतिष्ठापयति ॥
इतरथा इयरावए वसहिमित्यस्यान्तर्गडुमात्रतापत्तेः ॥ तदेवंनिस्सकडेत्यादिना चैत्यवासं सिसाधयिषतस्तव वसतिवाससिद्धा यत्नेनोप्ता माषाः स्फुटमेते कोद्रवा जाता इति न्यायेन विपरीतमापतितमहो आगमार्थकौशलं भवतः ॥
यदपि देउलियखरंटेत्यादिना देवकुलिकशब्दाच्चैत्यवाससाधनं तदप्यसम्यक्, यतिवेषमात्रधारिणामेव देवकुलिकव्यपदेशात् ॥ एतद्गाथाविवरणे देवकुलिका देवकुलपरिपालका वेषमात्रधारिण इति व्याख्यानात् ॥ ___ अत एव तेषां प्रवचनोपदेशपूर्वकपरुषभणनरुपा खरंटनाभिहिता ॥ आगमोक्तत्त्वे तु चैत्यवासस्य तेषां यथोक्तकारित्वेन सुविहितकृतखरंटनानुपपत्तेः ॥ तस्मात्पार्श्वस्थाद्यधमानामेव देवकुलिकव्यपदेशात्, तेषां चानंततमेन कालेन दशमाश्चर्यमहिम्ना भवतेव स्वमतिकल्पितचैत्यवासाभ्युपगमप्रतिपादनान्न ततः सुविहितानां चैत्यवाससिद्धिः ॥ __ किञ्च यत्र मुनयो वसन्ति तन्निश्राकृतं स्यात्तदा जत्थ साहम्मिया बहवे इत्याद्यागमेन यत्र चैत्यादौ लिङ्गिनो वसन्ति तदनायतनमित्यनायतनत्वाभिधानं विरुध्येत ॥ तस्मात्ततएवावसीयते साधुनिवासरहितं निश्राकृतमिति ॥ - एवं च चैत्यवास इदानींतनमुनीनामुचित आगमोक्तत्वादिति हेतुरुक्तन्यायेना गमोक्तत्वस्यासिद्धत्वादसिद्धः ॥ यदप्युदितं मा सैत्सीत्साक्षात्सिद्धान्ताच्चैत्यवासस्तथापि गीतार्थाचरित्वात्सेत्स्यतीति यच्च तस्यैव च श्रीमदार्यरक्षितपादैरित्यादिनाच्छव्वास सएहीत्यन्तेन समर्थन तदप्यसङ्गतम् ॥ ____च्छव्वाससएहीत्याद्याप्तोपदेशस्य भगवत्प्रणीतागमेष्वनुपलम्भात् ॥ मूलागमनेन विरोधाच्च ॥ तथाहि ॥ श्रीमदायरक्षितपादेषु स्वर्ग गतेषु प्रागेव प्रतिवादिनिराचिकीर्षया मथुरापुरीप्रेषितेन गोष्ठमाहिलेन जनपरम्परया गुरूणां स्वर्गगमनं दुर्बलिकापुष्पमित्रस्य सूरिपदप्रतिष्ठामाकर्ण्य दर्पोद्धरचेतसा जातमत्सरेण ततःसमागत्य व्याख्यानक्षणे श्रीदुर्बलिका पुष्यमित्रेण सार्धं प्रारब्धे विवादे ततो युक्तिसिद्धान्ताभ्यां प्रतिपाद्यमानेनापि मिथ्याभिनिवेशात्तद्वचनमनभ्युपगच्छता सङ्घोद्घाटनान्निह्नवत्वं प्रतिपेदे इत्यभिहितमावश्यके ॥
तथाहि कार्यमत्र ज्ञानादिकम् ॥ कज्जंनाणाईयमितिवचनात् ॥ तस्य च लेशेनाप्य· त्रानुत्सर्पणात् ॥ गीतार्थाचरितत्वस्य कालमानविरोधेनापास्तत्वात् ॥ देवद्रव्योपभोगा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org