________________
श्री सङ्घपट्टकः
यदि ह्यपूर्वसमवसरणे भगवन्तं वन्दितुमनागच्छतोभ्यर्णदेशस्थस्य मुनेः- प्रायश्चितमुक्तम् एतावता यतेर्जिनगृहवासस्य किमायातं, वन्दनार्थं हि यतेर्भगवत्समीपागमनं वयं मन्यामह एव ॥ सततं शयनादिना निवासं त्वभ्यासे तदाशातनापत्त्यानेच्छामः ॥
३२
इत्यबुध्वैवागमार्थं यत्र तत्र युञ्जानस्य कस्ते प्रतिमल्ल इति ॥ तदेवं व्यवस्थितमेतत्, भगवदाशातनातस्त्रासो महामुनीनामिति ॥ एतेनाधुनिकमुनीनां चैत्यवासमंतरेणोद्यानवासो वा स्यादित्यादि कथमुद्यानवासोऽधुनातनयतीनां कल्पमान: शोभेतेत्यन्तं यदुक्तं परेण तत्र सम्प्रतिपत्तिरुत्तरम् ॥
यथोक्तोद्यानाभावेन तस्करादिभयेन च संप्रत्युद्यानवासनिषेधस्यास्माभिरप्युपगमात् ॥ ततश्चैत्यं मुनीनामुपभोगयोग्यम्, आधाकर्मदोषरहितत्वादिति हेतुरुक्तन्योयन मुनीनां चैत्योंपभोगयोग्यताया देवद्रव्योपभोगादिदोषैरागमेन बाधितत्वात् कालात्ययापदिष्टः ॥
यदपि निस्सकडेत्यादिसिद्धान्तवचनाच्चैत्यावासाभ्युपगमः तदप्यविदितागमाभिप्रायस्य भवतो वचः, सम्यक् निश्राकृतशब्दार्थाऽपरिज्ञानात् ॥ न हि यत्र साधूनां निवासद्वारेण निश्रा आयत्तता भवति तन्निश्राकृतमिति निश्राकृत शब्दार्थः ॥ किंतर्हि यद्देशतः पार्श्वस्थादिप्रतिबोधितश्रावकैः स्वयं तथाविधिमकुर्वाणैरपि विधिश्रद्धालुभिः पार्श्वस्थादीनां चैत्यगृहादन्यत्र वसतामेव निश्रया निर्मापितं तन्निश्राकृतमिति ॥
कथमयमर्थो निश्राकृतशब्दस्य निर्णीत इति चेत् ॥ उसन्नाविय इत्येव इंती चेइवंदगा जेसि निस्साइ तं भवणं सद्धाईहि य कारिय मिति वृद्धसंप्रदायात्, अयमपि कुत इति चेत् ॥ टाइम - ठाइओसरण मंडवा संजयट्ठदेसेवाइति कल्पभाष्यवचनात् ॥
अत्र ह्यवसन्नादयस्तत्रैव निश्राकृते चैत्ये वन्दनाय गच्छन्तीत्युक्तम् ॥ अन्यत्र वसतां च तेषां तत्रागमनं संभवेत् ॥ यदिच ते तत्रैव वसेयुस्तदायत्यर्थं बहिर्मण्डपकरणं वन्दनायागमनं च तेषां तत्र नोपपद्येत ॥ नहि तत्रैव वसतां तदर्थं मण्डपविधानं तत एव वा तत्रागमनं नाम ॥ तस्मादेवमागमवचनेन निश्राकृतशब्दार्थालोचनान्न श्रुते निश्राकृतव्यपदेशेन यतीनां चैत्यवाससिद्धिः ॥
निस्सकडइत्यादिना हि राजनिमन्त्रादिषु पुष्टालम्बनेन प्रत्यासन्नग्रामादेर्निश्राकृत चैत्ययात्राद्यवसरे समागतानां सुविहितानां वन्दनविधिरभिहितः ॥ वस्तुतस्तूत्सर्गेण तत्र पार्श्वस्थादि संसर्गपरिजिहीर्षया प्रत्यहं वन्दनमपि निवारितमेव ॥
तत्थासो जहसु निस्समिति कल्पभाष्यवचनात् ॥ तत्र हि निःकारणगमने प्रायश्चित्तप्रतिपादनादिति ॥ निस्सकडे ठाइ गुरू कइवयसहिओ, इयवरा वए वसहिं ॥ जत्थपुण अन्निस्स कड़पूरिंति तर्हि समोसरणं ॥ पूरिंति समोसरणं, अन्नासइ निस्सचेइएसुंपि ॥ इहरा लोगववाओ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org