________________
विभाग-१, बृहवृत्तिः निट्ठिवणादकरणं, असक्कहा अणुचियासणाईया ॥ आययणमि अभोगो, इत्थं देवा उदाहरणं ॥ देवहरयंमि देवा, विसयविसविमोहिया वि न कयावि ॥ अच्छरसाहि पि समं, हासरिकड्डाइवि करंति ॥ ___ यदपि गर्भागारंविहायेत्यादिना द्वितीयविकल्पोक्ताशातनाऽभावप्रतिपादनं तदप्यऽदृष्टागमतां भवतो व्यञ्जयति ॥ यतः ॥ सालालंदेत्यादि वचनस्य निपुणनिरूपणेनापि क्वचिदप्यागमेनुपलम्भात्, स्वमनीषाकल्पितपाठानां त्वागमत्वाभिधाने सर्वत्रानाश्वासप्रसङ्गात् ॥ __किञ्च निश्राचैत्यविचारप्रक्रमे यात्रानिमित्तागामुकसंयतार्थं गृहिणा स्वद्रव्येण देवद्रव्येण वा बहिनिर्मापितस्य मण्डपादेनिषेवणेनाधाकर्मानुमत्या देवद्रव्योपभोगेन वा सुविहितानां निश्राचैत्ये गमनाभावः प्रत्यपादि ॥
तथा च कल्पभाष्य ॥ठाइ मठाइओसरण मंडवा संजयट्ठदेसे वा ॥ पेढिय-भूमिकम्मे, निसेवओ अणुमई दोसा ॥
एवं च यदा बहिर्मण्डपनिषेवणादिनापि प्रायश्चित्तापत्तिरभिहिता तदा का कथा गर्भागारादिपरिहारेण शालाबलानकादिष्ववस्थाने यतीनां, तत्र ततोप्यधिकतरदोषसंभवादिति ॥
यद्यप्यन्यथा जिनप्रतिमेत्यादिना श्राद्धानां गृहबहिर्वासप्रसञ्जनं ॥ तत्रापि तदवग्रहकल्पितभूभागस्यैव देवालयत्वात् अन्यस्य च सकलस्यापि गृहिगृहत्वात् तत्र वसतां श्रद्धानां नाशातनासंभवः, जिनमन्दिरस्य तु समस्तस्यापि जिनोद्देशेन निर्मापितत्वात् कथंतदेकदेशे पि वसतां यतीनां नाशातानादोषः स्यादिति ॥ - किञ्च पूजार्थं समुद्गकस्थापितभगवदङ्गबहुमाननिबंधनत्वेनचात्यन्तविषयिणामपि त्रिदशानां सुधर्मासभापरिवर्जनेनाङ्गनासम्भोगादेः सिद्धान्ते श्रवणात् ॥ - यदपि लौकिकोदाहरणेन जिनभवन एव यतीनां वाससमीचीनताव्यवस्थापनं तदपि भवतो जिनमतानैपुण्यं सूचयति ॥ लोकलोकोत्तरमार्गयोभिन्नत्वात् ॥ लोकोत्तरमार्गे हि भगवति विद्यमानेपि वन्दनव्याख्यानाद्यवसर एव साधूनां तत्प्रत्यासत्तिश्रवणात् ॥ ____ वैयावृत्यकरस्यापि भोजनादिसमय एव तत्सन्निकर्षभावात् सततं शयनाद्यासक्त्या हि तदाशातनापत्तेः ॥ आगमे च भगवतः पारणकादौ पादन्यासभूमावपि महागौरवाईतया तदनाक्रमणार्थं रत्नमयपीठनिर्मापणश्रवणात् ततश्चैवंविधगौरवार्हाणां भगवतां प्रतिकृतिसदनेपि कथं यतिनिवासः श्रेयान् स्यात् ॥ . - लोकेप्येकगृहवासेपि तनयानां च बहुमानयोग्यत्वेन पितृशय्यादिपरिभोगाऽदर्शनात् ॥ यदप्यपूर्वसमवसरणादौ निकटश्रमणानामनागमने प्रायश्चित्तापादनेन विद्यमानभगवदासत्त्या चैत्यवासव्यवस्थापनं तदपि भवतो मुग्धस्य केयूरपादबन्धनन्यायमनुहरति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org